पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७ सर्ग:]
323
प्राचीकशद क्रमात् तीव्रं दुर्भावं कामितां च सः

[१] स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्वतः ॥ २३ ॥
|| एकश्च दण्डकारण्ये किमर्थं चरसि, द्विज !
एवं ब्रुवन्त्यां सीतायां रामपत्नयाँ महाबलः ।। २४ ।।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ।
[२] येन वित्रासिता लोकाः सदेवासुर [३]पन्नगाः ॥ २५ ॥
अहं स रावणो नाम, सीते ! रक्षोगणेश्वरः ।
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ॥ २६ ॥
11 रतिं स्वकेषु दारेषु नाधिगच्छाम्पनिन्दिते !

 दृष्ट्येति । पूर्वं श्रुत्वा, अद्य दृष्ट्वा चेत्यर्थः ॥ २६ ॥

बहीनामुत्तमस्त्रीणां आहतानामितस्ततः ।। २७ ।।
सर्वासामेव, भद्रं ते, ममाग्रमहिषी भव ।
लङ्का नाम समुद्रस्य मध्ये मम महापुरी ॥ २८ ॥
सागरेण परिक्षिप्ता निविष्टा [४]नगमूर्धनि ।
तत्र, सीते! मया सार्धं वनेषु [५]विहरिष्यसि ॥ २९ ॥


  1. ननु सम्यासिनं प्रति कुलगा त्रप्रश्नोऽनुपपन्नः । एकाकितया अरण्ये सञ्चार पर्धर्म एव । अतोऽङ्गत इव प्रतिभातीति चेत्, उच्यते पूर्वाश्रमनामगोत्रप्रश्नोऽयम् ।
    न तु ग्राम-प्रसङ्गरहितेऽरण्ये इति, ‘कथं भवान् भिक्षाप्रदजनरहिते चरति ?' इति प्रश्न उपपद्यते - गो.परन्तु सीता रावणं 'ब्राह्मण !" " द्विजश्रेष्ठ ! "द्विज ! इत्येव संबुध्यतीत्यवधेयमत्र ।
  2. यद्यपि परिव्राजकरूपेणागतवतः रावणस्य हठात् एवंवाद: न चातुर्यावह:, परन्तु
    'स मन्मथशराविष्ट: ' (16-13) इत्यादिना तस्य कामोपहतचित्तत्व प्रतीत्या, कामपर-
    "वशानां स्वप्रलोभनीयनारीपुरतः विकत्थनस्यावशत्वतः हठात स्वप्रभावमेव वर्णयितुमुपक्रमति
    रावणः । अत एव पूर्वलाके 'प्रत्युवाचोत्तरं तीव्र इति दृश्यते तीव्र - त्वरित -अवशत इति यावत् ॥
  3. मानुषा:-ज.
  4. गिरि-ज.
  5. विचरिष्यसि-ज.