पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ सर्ग:]
3
अथ रामादयोऽपश्यन् समृद्धांस्ताप सामान्



 पूज्यमानमिति यावत् । तृतीया स्वार्षी । अग्निशरणैः- अग्निहोत्रगृहैः । स्रुङ्मुखादिभाण्ड नि यज्ञात्राणि । तथा अरण्ये भवाः आरण्याः ॥ ४ ॥

समिद्भिः तोयकलशैः फलमूलैश्च शोभितम् ।
आरण्यैश्च महावृक्षैः [१] पुण्चैः स्वादुफलेवृतम् ॥ ५ ॥

बलिहोमार्चितं पुण्यं ब्रह्मघोपनिनादितम् ।
पुष्पैः वन्यैः परिक्षिप्तं पद्मिन्यां च सपद्मया || ६ ||

 बलिहोमार्चितं-वैश्वदेवबलिहरणसुसंस्कृतमित्यर्थः । ब्रह्मधेषः- वेदघोषः, तेन नादितं- संजातनित्यघोषम् । पद्मिनी-पद्मसरसी । सपद्मया- पद्मपुष्पयुक्तया ॥ ६ ॥

फलमूलाशनैर्दान्तैः चीरकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानरामैश्च पुराणैर्मुनिभिर्वृतम् ॥ ७ ॥

 पुराणैः-वृद्धैः ॥७॥

शवपुण्यैश्च नियताहारैः शोभितं परमर्षिभिः ।
तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ॥ ८ ॥
ब्रह्मविद्भिः महाभागैः ब्राह्मणैरुपशोभितम् ||

 ब्रह्मभवनं-ब्रह्मलोकः । तत्त्वदर्शिभिः - अनाद्यनन्तब्रह्मविभूतिमय- सकलप्रपञ्चानारोपितदर्शनवद्भिः, अत एव ब्रह्मविद्भः । कार्यस्य उपादानानन्यतः ब्रह्मविभूतिमया शेषप्रत्ययम्य अकृतक ब्रह्मानन्यत्व- पोषवद्भिः उक्तलक्षणब्राह्मणैः उपशोभितत्वात् प्रागुक्तब्रह्मभवन- पुण्यत्वम् ॥ ८ ॥



  1. पुण्य