जीर्णावस्थाम् । सुखोदर्कतामिति यावत् | वज्रं- आज्यम् । "वज्रो वा आज्यम् । मक्षिकया सह अवगीर्ण भुक्तमित्यर्थः ॥
इतीव तद्वाक्यमदुष्टभावा
[१]सुधृष्टमुक्ता रजनीचरं तम्
गात्रप्रकम्पव्यथिता बभूव
वातोद्धता सा कदलीव तन्वी ॥ ४९ ॥
इतीव-इत्येव । तत्-उक्तरूपम् । वातोद्धता-आहिताग्न्यादिः, उद्धतवाता-महावातप्रकम्प्यमानेति यावत् ॥ ४९ ॥
तां वेपमानामुपलक्ष्य सीतां
स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म च स्वं
समाचचक्षे भूयोऽपि भयोत्पादनायेत्यर्थः ।भयकारणार्थम् ।। ५० ।।
इत्यार्षे श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे सप्तचरवारिंशः सर्गः
भयकारण|-मयोत्पादनार्थमित्यर्थः । मौन (५०) मानः सर्गः ॥
इति श्रीमद्रामायणामृतकतकटीकायामरण्यकाण्डे सप्तचत्वारिंशः सर्गः
अष्टचत्वारिंशः सर्गः
[सीताधिक्कारः]
[२] एवं ब्रुवन्त्यां सीतायां संरब्धः परुपं वचः ।
ललाटे भ्रुकुटी कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥