पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
336
[अरण्यकाण्ड:
सीतापहरणम्

 कामात् गृह्णीयात् तत्सदृशमिदं घोरमित्यर्थः ननु कथं सीता न शापतो रावणं नाशयति ? उच्यते

अयुक्तयोक्तव्यनिज घोरोत्थत्वेन रक्षसः|
पतिना ज्ञात्वा सर्वज्ञा जोषमास्थिता ||

 अयमेवाशयः कविना रोहिणीदृष्टान्तेन सूचितः । श्लोकाः योगिजनगम्यः, न प्रश्नाई: । अन्यदपि-

प्राग्वेदवत्यात्मकृत प्रतिज्ञाम्मृतितो विभोः ।
सोढा स्थितं, सा प्रतिज्ञा [१] तत्समूल वेनाशने ॥

 वेदवतीति त्रयीप्रधाना श्रीमहामातुर्मूर्तिः । सीता तु वत्सार- त्रिपदाप्रधाना शुद्धयै । तपश्चरन्त्या रावणघर्षितया तु प्रतिज्ञां कृत्वा देहः उत्सृष्टः । सा तु प्रतिज्ञा-

“यस्मात्तु घर्षिना चाहं त्वया पापालना बने ।
तस्मात् तत्र वधार्थं वै उत्पत्स्येऽहं महीतलात् ॥” (उत्तर. १७-३१)

 इति । सा च प्रतिज्ञा भगवदाज्ञया स्मृता इति ।। १७ ।।

वामेन सीतां पद्माक्षी मूर्धजेषु करेण सः ।
उर्वोस्तु दक्षिणेनैत्र परिजग्राह पाणिना ।। १८ ।।
तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम् ।
प्राद्रवन् गिरिसङ्काशं भयार्ता वनदेवताः ॥ १९ ॥
सच मायामयो दिव्यः खरयुक्तः खरस्वनः ।
प्रत्यदृश्यत [२].हेमाङ्गः रावणस्य महारथः ॥ २० ॥


  1. रावणमात्रभरमीकारे राक्षसकुलनाशो न स्यादित्याशय: ।
  2. हेमाश:- स्वर्णमयचक्रः, चक्रं हि रथाङ्गमित्युच्यते - गो