४९ सर्ग:]
337
स चैनां रथमारोप्य कोशन्तीमुत्पपात खम्
ततस्तां [१] परुषैर्वाक्यैः भर्त्सयन् स महास्वनः ।
[२] अङ्केनादाय वैदेहीं रथमारोपयत्तदा ।। २१ ।।
अङ्केनादायेति । अङ्कशब्दः इह सर्वत्र कटिप्रदेशवाची ।
हस्तान्तरैरिति शेषः ॥ २१ ॥
सा गृहीता विचक्रोश रावणेन यशस्विनी ।
रामेति सीता दुःखार्ता दूरगतं [३]रामं दूरगतं बने ॥ २२ ॥
[४] तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।
[५]
[६] विवेष्टमानामादाय उत्पपाताथ रावणः ॥ २३ ॥
अकामां-विरागिणीम् ॥ २३ ॥
ततः सा राक्षसेन्द्रेण हियमाणा विहायसा ।
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा ॥ २४ ॥
विहायसा-आकाशमार्गेण । मत्ता-पैत्त्यवशात् उन्मत्तेवेत्यर्थः ॥
हां लक्ष्मण ! महाबाहो ! गुरुचित्तप्रसादक !
दियमाणां न जानीषे रक्षसा [७] माममर्षिणा ॥ २५ ॥
जीवितं सुखमथच धर्महेतोः परित्यजन् [८] ।
हियमाणां अधर्मेण मां, राघव ! न पश्यसि || २६ ।।
- ↑ रावणादात्मानं मोचयितुं यतन्तीं परुषोक्तिमिः भर्त्सयन् ।
- ↑ अङ्केन इस्तान्तरैरित्यर्थ:-ति. अङ्केन-ऊरुभागेन-गो.
- ↑ रामं रामेति विक्रोश –उच्चराकन्दनेनाहूतवती ।
- ↑ रामकामां-ङ.
- ↑ विवेष्टमानां- रथोपरिस्थले लुठन्ती-गो. विचेष्टमानां तत आत्मानं मोचयितुं-ति
- ↑ विचेष्टमानां-ज.
- ↑ कामरूपिणा-ज.
- ↑ राघवविशेषणमिदम् ।