पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५० सर्ग:]
341
क्षिप्रं एतां दर्शा शंस रामायेत्याह वं प्रति

पञ्चाशः सर्गः

[जटायुरभियोगः]

तं शब्द [१]मवसुतस्तु जटायुरथ शुध्रुवे ।
[२] निरीक्ष्य रावणं क्षिप्रं वैदेहीं च [३]ददर्श सः ॥ १ ॥

 अथ सीतानिवेदितापहारेण जटायुना न्यायोक्तिपूर्व रावण- निरोधः । तं शब्दमित्यादि । अपहारावेदनशब्दमित्यर्थः । अवगाय सुप्तः - अवसुप्तः ॥ १ ॥

ततः पर्वतकूटाभः तीक्ष्णतुण्डः [४].खगोत्तमः ।
वनस्पतिगतः श्रीमान् व्याजहार शुभ गिरम् ॥ २ ॥
दशग्रीव ! स्थितो धर्मे पुराणे [५] सत्यं [६] संश्रवः |
जटायुर्नाम नाम्राऽहं गृध्रराजो महाबलः ॥ ३ ॥

 दशग्रीवेति संबुद्धिः । सत्यसंश्रवः - सत्यप्रतिज्ञः । सीतासंरक्षणे अहं सहायः इत्युक्तत्वात् इत्याशयः । अहं उच्यमाननामादिकः ॥ ३ ॥

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
लोकानां च हिते युक्तः रामो दशरथात्मजः ॥ ४ ॥

 किं ततः ! इत्यत आह -- राजेत्यादि ॥ ४ ॥

तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।
सीता नाम वरारोहा यां त्वं हर्तुमिच्छसि ।। ५ ।।


  1. अवसप्तः - ईषत्सुप्तः - गो. भोजनोत्तरं दिवैव गाढसुप्तोऽपि-ति. वार्धक्या-दीपसुप्त इव स्थितः ।
  2. निरैक्षव ज.
  3. यशस्विनीम्-ड.
  4. खगेश्वर:-ङ
  5. सत्य सत्यसंश्रयः - -'सत्यं ज्ञानमनन्तं ब्रह्म' इत्युक्तः परमात्मा संश्रय: - आलम्बनं यस्य सः - गो.
  6. 'संश्रयः- ङ.