पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
350
[अरण्यकाण्डः
जटायुश्शातनम्

सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः ।
पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥ १८ ॥
स भग्गधन्वा विरथः हताश्वः हतसारथिः ।
अङ्ग्रेनादाय वैदेहीं पपात भुवि रावणः ॥ १९ ॥
दृष्टा निपतितं भूमौ रावणं भग्नवाहनम् ।
साधु साध्विति भूतानि गृध्रराजमपूजयन् || २० ||
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् ।
उत्पपात पुनर्हृष्टः मैथिलीं गृह्य रावणः ॥ २१ ॥
तं ग्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् [१] ||
गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् ।
[२]समावार्य महातेजाः जटायुरिदमब्रवीत् ॥ २२ ॥

 समावार्येति । संनिरुध्येत्यर्थः ॥ २२ ॥

[३] वज्रसंस्पर्शबाणस्य भार्या रामस्य, रावण !
अल्पबुद्धे ! हरस्येनां वधाय खलु रक्षसाम् ॥ २३ ॥
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ।
विषपानं पिबस्येतत् [४] पिपासित इवोदकम् ॥ २४ ॥

सबलः–चतुरङ्गबलसहितः । परिच्छदः- दासदासीजनः । न शिष्यसीत्यध्याहार्यम् ॥ २४ ॥


  1. एतदनन्तरं - " गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम् "- इत्यधिकं ज.
  2. समावार्य-ड.
  3. वज्रसंस्पर्शाः-वज्रसमस्पर्शा: बाणा: यस्य-गो.
  4. बुद्धिपूर्वकप्रवृत्तौ दृष्टान्तः - पिपासित इत्यादि ।