पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१ संग: ]
353
तस्यानित पक्षपाद असिना रावणो रुषा

 विरराद -- विकीर्णवान् । अधिरूढः गजारोह:--हस्तिपक: दुष्टवारणं - दुष्टगजं प्रति यथा स्यात् - यथाव्यापारो भवति तथा- व्यापारोऽमूदित्यर्थः । स एव प्रकाश्यते-- विश्रादेत्यादि । अस्य पृष्ठे इत्यन्वयः ॥ ३३-३४ ॥

स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ।
अमर्षस्फुरितोष्ठः सन् प्राकम्पत स [१] रावणः || ३५ ।।
स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः ।
तलेनाभि [२] जघानाशु जटायुं क्रोधमूर्च्छितः ।। ३६ ।।
जटायुस्त [३] [४] "मभिक्रम्य तुण्डेनास्य खगाधिपः ।
बामबाहून् दश तदा व्यपाहरदरिन्दमः || ३७ ॥
संछिन्नवाहोः सद्यो वै बाहवः सहसाऽभवन् ।
[५] विषज्वालावलीयुक्ता: वल्मीकादिव पन्नगाः ॥ ३८ ॥

 वश्मीकात् पन्नगा इव सद्यो वै बाहवः समभवन् इत्यन्वयः ॥

ततः क्रोधात् दशग्रीवः सीतामुत्सृज्य [६] रावणः ।
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥ ३९ ॥
ततो मुहूर्त संग्रामः बभ्रुवातुलवीर्ययोः ।
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च || ४० ।।
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ।
पक्षौ पार्श्वों च पादौ च खड्ग [७]मुद्धृत्य सोऽच्छिनत् ॥


  1. राक्षसः-ज.
  2. जवानाती-ज.
  3. अमिक्रम्य-अभितो गत्वा-गो.
  4. मतिक्रम्य-ज.
  5. विषज्वालेत्युपमानविशेषणात् बाहूनां सायुषत्वं गम्यते- गो.
  6. वीर्यवान् - ज.
  7. मुझम्य-ड..