एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२ सर्ग:]
357
कोशम्तीं राम रामेति वीतां जमाह राबणः
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथंवत् । ि
अभ्यधावत वैदेहीं [१] रावणो राक्षसाधिपः ॥ ७ ॥
[२] लतामिव वेष्टन्तीं आलिङ्गन्तीं महाद्रुमान् ।
मुश्च मुश्चेति बहुशः [३] प्रवदन् राक्षमाधिपः ॥ ८
क्रोशन्तीं राम रामेति रामेण रहितां वने ।
जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥ ९ ॥
प्रधर्षितायां सीतायां बभूव सचराचरम् ।
जगत्सर्वममर्यादं तमसाइन्धेन संवृतम् ।। १० ।।
न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः ।
अमर्यादं-भिन्नस्वस्वप्रकृतिकमित्यर्थः । अन्धेन तमसा-बाह्येन आभ्यन्तरेण चेत्यर्थः ॥ १० ॥
श्रीमान् – निस्तुलाधिक भूमविद्यैश्वर्यवान् भगवान् पितामहः- श्रीमदादिगुरुः ब्रह्मा ब्रह्मलोकस्थः दिव्येन चक्षुषा सीतां -
- ↑ क्षणं विश्रान्तः रावण:- गो. अभ्यभावत विश्रान्तः इति पाठः एतत्सम्मतः
स्याद्वा । - ↑ वेष्टम्ती लतामिव वृक्षानालिङ्गम्तीं-ति. महाद्रुमान् आलिङ्गन्तीं, अत एव
शतामिव वेष्टन्तीं-रा. लतामिव भूतले वेष्टन्तीं-गो. - ↑ प्राप सो-ज.
- ↑ यद्यपि 49 सर्ग एव 'जग्राह रावण: सीत' (16) इत्यत्रेव अस्य श्लोकस्यास्त्यबसरः, तथाइप मध्ये जटायुषा प्रतिरोधसंभावनया, इदानीमेव सीतापहारस्य निश्चयादत्र प्रवृत्तोऽयं श्लोकः ॥
- ↑ देवो-ज.
- ↑ कार्य- बालकाण्डे विष्णुना प्रतिज्ञातं कृतमति व्याजहार - प्रीत्यति ध्येन
पुरुषान्तरांस विधानेऽप्युदाहरव-गो. यदर्थ अवतीर्णः देवानां सत् कार्य कृतं -
सिद्धमित्यब्रवीत् - ति.