पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
368
[भरण्यकाण्ड:
सीताम् पुरादिभ्रंशः

 त्रिपदात्मिकां स्वशक्ति भूगतां रक्षसा परामृष्टां दृष्टा, कार्य कृतमिति यत् कार्य-मूमबैराज सकललोक शोधनलक्षणमुद्दिश्य बैराज- पुरुषद्वारा यः स्वांशोऽवतारितः तेन तत् कार्य कृतमित्येव - सिद्ध- करूपमित्येव व्याजहार। तूलतृणकाष्ठादिनिचयस्य अभिज्वाला- संयोगवत् स्वशक्तित्रिपाद ब्रह्माभिसीतास्पर्शन निमित्तस्य सिद्धत्वादित्या- श्रयः । एवं ब्रह्मप्रीत्या च ब्रह्मावतारितो ब्रह्मांशः रामः इति सुस्पष्टम् ॥ ११ ॥

प्रहृष्टाः व्यथिताश्चासन् सर्वे ते परमर्षयः ॥ १२ ॥
दृष्टा सीतां परामृष्टां दण्डकारण्यवासिनः ।
रावणस्य विनाशं च प्राप्तं 'बुद्धा यदृच्छया ॥ १३ ॥

 प्रहृष्टाः व्यथिताः इति उभयहेतुप्रदर्शनं व्युत्क्रमतः इष्टा इत्यादि ।। १२-१३ ।।

स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च ।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥ १४ ॥
'तप्ताभरण'वर्णाङ्गी पीतकौशेयवासिनी ।
रराज राजपुत्री तु विद्युत् सौदामिनी यथा ॥ १५ ॥

 तप्ताभरणवर्णाङ्ग इति प्राचीनः पाठः । ततकाच नाभरणजा- लङ्कारोपेताङ्गयुक्तेत्यर्थः । विद्युत् – भ्राजादिकिप्, विशेषेण द्योतवन्ती । सौदामिनीति । 'तेनैकदिक्' इत्यणि पू, तटिदित्यर्थः । १५ ।।