पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
right
गृहीत्वैवं पुनदीनां स जगाम बिहायसा

[१] उद्धृतेन च वस्त्रेण तस्याः पीतेन रावणः ।
अधिकं [२]प्रतिबभ्राज गिरिर्दीप्त इवाग्निना ॥ १६ ॥

 प्राप्यनाश्यत्वभावाभ्यां स्वशुभाशुभकर्मतः । सङ्गोऽतः रक्षला सङ्गमपि वर्णयते कविः—उद्धनेन चेत्यादि । १६ ।।

तस्याः परमकल्याण्याः ताम्राणि सुरभीणि च ।
पद्मपत्राणि वैदेह्याः अभ्यकीर्यन्त रावणम् ।। १७ ।।

 रावणं अभ्यकीर्यन्त - रावणाङ्गेषु पतितान्यमूवन्नित्यर्थः । १७ ॥

तस्याः कोशेयमुद्भूतं आकाशे कनकप्रभम् ।
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे [३] ॥ १८ ॥

 आदित्यगगेण - रागयुक्तादित्य किरणेन । अत एव - आतपे इति । अनेन ईषताप उच्यते । आतपः - संध्याकालः ।। १८ ।।

तस्याः [४] सुनसं वक्तुं आकाशे रावणाङ्कगम् ।
न रराज विना रामं विनालमिव पङ्कजम् ।। १९ ।।

 सुनसमिति । 'उपसर्गाच' इति नसादेशः ।। १९ ।।

बभूत्र जलदं नीलं भिवा चन्द्र इवोदितः ।
सुललाटं सुकशान्तं [५] पद्मगर्भाभमव्रणम् || २० ||


  1. असङ्गाया अपि चिच्छक्के: तस्या रावणविनाशसान्निध्यद्योतनाय कविः रावणेन तस्या आसतिं वर्णयति-ति.
  2. परिवभाज-अ.
  3. आतपे-ईषत्तापे सन्ध्याकाले-ति. रा. आतपे-मध्याह्ने मादित्यरागेण ताम्रं -अरुणं अभ्रमिव बभौ । अनेन रावणविनाशपिशुनोपात: सूचित:-गो.
  4. तत् विमलं-ज.
  5. पचगर्भामं -- बिकसितपञ्चाभम्। अक्षण निर्दोषम्-गो.