पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
566
[अरण्यकाण्ड:
रावणगहणम्

परमं खळु ते वीर्य दृश्यते, राक्षसाधम !
विश्राव्य नामधेयं हि [१]युद्धेनास्मि जिता त्वया ॥ ६ ॥

 परमं स्खस्वित्यादिस्तु व्यङ्गयोक्तिः ॥ ६ ॥

ईदृशं गर्हितं कर्म कथं कृत्वा न लजसे ।
स्त्रियाथ हरणं, नीच ! [२] रहिते तु परस्य च ॥ ७ ॥

 परस्य स्त्रियाः इत्यन्वयः ॥ ७ ॥

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।
सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ ८ ॥

 शौण्डीय मानिनः - शूरमानिनः ॥ ८ ॥

धिक् ! ते [३] शौर्य च सवं च यत् [४] त्वं कथितवांस्तदा ।
कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ ९ ॥

 तदेति । अपहरणात् पूर्वकाले इत्यर्थः । कुलाक्रोशकरं- कुलनिन्दाकरम् ॥ ९ ॥

[५] किं कर्तुं शक्यमेवं हि यज्जवनैव धावसि [६]
मुहूर्त [७]मपि तिष्ठ त्वं न जीवन् प्रतियास्यसि ।। १० ।।

 मुहूर्तमपि तिष्ठ त्वं, यदि शूरः इति शेषः || १० ||


  1. युद्धेनापहृता-सु.
  2. स्त्रिया हरणमेव लज्जावहं, तत्रापि परस्य, तत्रापि असहायावस्थायामिति भावः ॥
  3. 'वीर्थ च शौर्य च-ड..
  4. स्वया कथितं तदा-ज.
  5. जवेन पलायनमन्तरा किमन्यत् भवता वतुं शक्यम् | यदि शक्यं तिष्ठ मुहूर्त..इत्यर्थः ।
  6. मतदनन्तरं ---"स्वयैय नूनं दुष्टात्मन् यद्वीये कथितं मम ---इत्यधिक-ज..
  7. मुपतिङ्क-ड.