अथ सर्वलोकप्रसिद्धं पूजा हेतुं दर्शयन्ति — इन्द्रस्येति । यो राजा प्रजाः धर्मेण रक्षति स तु इन्द्रस्य भगवतो जगदशेषयागाभि- पूजनीयस्य चतुर्भाग:-चतुरंशोपादानविग्रहवान् यदेवं तस्मात् वरानित्यादि । इन्द्रम्य - परमात्मनः श्रीहिरण्यगर्भस्य चतुर्धा विभज्यावती- र्णस्य प्रधानमूतः चतुर्भागः इत्यपि स्पष्टम् । इन्द्रस्यैवेत्येवकारेण न तु यस्य कस्यापि देवतासामान्यस्येत्यर्थः । लोकनमस्कृतः इति । भवतीति शेषः ॥ १८ ॥
ते वयं भवता रक्ष्याः भवद्विषयवासिनः ।
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ १९ ।।
न्यस्तदण्डा वयं, राजन् ! जिनक्रोधा जितेन्द्रियाः ।
रक्षितव्यास्त्वया शश्वत् [४]. गर्भभूताः तपोधनाः ॥ २० ॥
ते वयमिति- - ऋषयः । भवता रक्ष्या इत्यत्र हेतु: भव द्वेषयवासिनः इति — भवद्देशवासिन इत्यर्थः । यद्यपि दण्डका- रण्यदेशः रामस्य विषयो न भवति, तथापि सार्वभौमत्वात्
- ↑ इह - भूस्वर्गे इन्द्रस्य चतुर्भाग: चतुर्थांश: राजा प्रजा रक्षति, इन्द्रस्येति
लोकपालान्तराणामुपलक्षणम्, अष्टामिलोंकाल नां मात्रामि: निर्मितो नृपः' इति वचनात् ।
वस्तुतस्तु इन्द्रशब्दोऽयं परमात्मपरः । इन्द्रस्य - परमात्मन: चतुर्भाग:- चतुर्थांश:
सदवतारभूने व्यक्तिचतुष्टये एकव्याक्तभूतः भवान् भोगान् भुङ्के- गो.
चतुर्भाग:-चतुर्णां अर्धधर्मकाममोक्षाणां भाग: आश्रितकर्तृक सेवा यस्मात् सः - शि - ↑ इन्द्रस्येह-झ.
- ↑ भुङ्क्ते रम्यान्मुझे नमस्का:-ज
- ↑ गर्मभूवा: – प्रजातुल्या:- गो. मात्रेकरक्ष्यपुत्रतुल्या:- रा