पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

390 अनिय [अरण्यकाण्ड: चरणोत्कर्षैः-- पादोत्क्षेपैः मेदिनीं दारयन्निव प्रचाल्य-- उत्थाय ।। २९ ॥ बत्सरावधिकरणम् 'अशोकवनिकामध्ये मैथिली नीयतामियम् । तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ ३० ॥ तत्रैनां तर्जनैः धोरैः पुनः सान्त्वेश्च मैथिलीम् । आनयध्वं वशं सर्वा: वन्यां गजवधूमिव ॥ ३१ ॥ इति प्रतिसमादिष्टाः राक्षस्यो रावणेन ताः । अशोकवनिकां जग्मुः मैथिलीं प्रतिगृह्य तु ।। ३२ ।। +' सर्वकामफलैः वृक्षैः नानापुष्पफलैर्वृताम् । 2 सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ ३३ ॥ सर्वकामफलैरिति । काम्यन्त इति कामाः वस्त्राभरण- खगादिलक्षणाः तद्रूपं फलं येभ्यः ते तथा । तादृशैः वृक्षै:- कल्पवृक्षैरिति यावत् । मद:-रून्तोष: । द्विजा:-पक्षिणः || ३३ ॥ 3 सा तु शोकपरीताङ्गी मैथिली जनकात्मजा । + राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ॥ ३४ ॥ शोकेन महता 'ग्रस्ता मैथिली जनकात्मजा । न शर्म लभते भीरुः पाशबद्ध। मृगी यथा ॥ ३५ ॥ ★ तर्जनभीषणायनुकूलतया विविक्ताशोकवनिकाप्रापणम् ||स्मिन्नपि काले (पा.) फलानि येषां ते । एवमुत्तरत्र/पि-गो राक्षसीत्यविभक्तिक निर्देशः, राक्षसीना मित्यर्थ:- गो. 'वशमापन्ना' इत्यस्य हरिण्यामप्यन्वयसोकर्याय एवं व्याख्यानम् । श्लोकद्वयं भिन्नं वाक्यम् ॥ 1 सवकाळ-सु.. 2 सर्वकामप्रदे- ङ. व्याघ्राणां-ज. त्रस्ता-ज.