पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

404 लक्ष्मणगईम् एकोनषष्टितमः सर्गः [लक्ष्मणगईणम् ] अथाश्रमादुपावृत्तं अन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रि रामो दुःखार्दितं पुनः ॥ १॥ [अरण्यकाण्ड: पूर्व आश्रमप्राप्त्यादिकं संक्षिप्योक्तम् । तत्र स्वप्रतिश्रय- प्रतिनिवर्तनसमये मध्येमार्ग लक्ष्मण: आपृछ्यमानवृत्तान्तः सर्वे यथातत्त्वं वदति । अथेत्यादि । आश्रमात् उपावृत्तं सीता- वचनात् स्वसमीप प्राप्तम्, अन्तरा-मध्येमार्गम् ॥ १ ॥ तमुवाच किमर्थं त्वं आगतोऽपास्य मैथिलीम् । "यदा सा तव विश्वासात् वने विरहिता मया ॥ २ ॥ यदा--- यस्मात् तव विश्वासात् सा वने मया विरहिता- रह त्यागे', त्यक्ता, तस्मात् ॥ २ ॥ 6 दृष्ट्वाभ्यागतं त्वां मे मैथिलीं त्यज्य, लक्ष्मण ! शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥ ३ ॥ त्वां मैथिली त्यक्ता अभ्यागतं दृष्दैव- दर्शनमात्रेणैव महत्पापं - अपहारलक्षणं शङ्कमानं मे मनः यत् सत्यं सत्यपर्याय ध्रुवं व्यथित-खिन्नम् ॥ ३ ॥ स्फुरते नयनं सव्यं बाहुच हृदयं च मे । दृष्ट्वा, लक्ष्मण ! दूरे #त्वां सीताविरहितं पथि ॥ ४ ॥

  • यदा इत्यस्य कालवाचकत्वेऽपि, लोके मतादृशव्यवहारस्य स्वरसत्वात् न
  • मे मनः व्यथितमिति यत् तत् सत्यम्- गो.

विरोधः । यदि चात्रागमनं तव अनिवार्य, तदा तथैव सह खल्वागन्तव्यं, न तु तामेकान्ते परित्यज्येत्याशयः । गतल १ लोकोऽप्यत्र स्मर्तव्यः || 1 दुःखादिदं-ज.