पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

418 सीताइन्वेषणम् एकपटितमः सर्गः [ सीताऽन्वेषणम् ]

  • दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः ।

रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ १ ॥ अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ २ ॥ पुनश्चान्वेषणप्रलापौ ' अर्षो वा एष आत्मनः यत्पनी' इति श्रुतेः सर्वाकारसम्पत्तिमत्स्त्रीवियोंगे गतकल्पात्मार्थत्वात् यथानिमित्तप्राप्त- तमसा आवृतसत्त्वरजः शक्तित्वाञ्च स्वभावप्राप्तौ तौ । न हि केवलसत्त्व- मात्रात् सत्त्वरजोमात्राद्वा कचिदपि देहः कश्चिदपि भवति । तथाहि गीयते-- अरण्यकाण्ड: 66 “न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ॥ " इति । दृष्ट्वाऽऽश्रमपदमित्यादि । प्रगृह्य- उत्क्षिप्य ॥ १-२॥ क नु, लक्ष्मण ! वैदेही ' कं वा देशमितो गता? केनाहता + वा! सौमित्रे ! भक्षिता केन वा प्रिया ? वृक्षणा"च्छाद्य यदि मां, सीते ! हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ ४ ॥ वृक्षेणेत्यादिः प्रलापः ॥ ४ ॥

'दृष्ट्वा अत्युद्विग्नोऽभवदिति शेषः-रा. लोकद्धय मेकान्वयम्-गो. पुनरपि रामग्रहणं क्रियाभेदात्- गो. सीतारहितां पर्णशालां, अत एव मृगपक्ष्यादिमिरपि शून्यं तन्त्र सर्वश: वैदेही सन्निरीय- अन्विष्य, तां अदृष्ट्वा उवाचे- आश्रमपदं दृष्ट्व त्यन्वय:- गो. + आहृता- अपहृता । कवा दिश-ड.. ● वार्य-ज. AWA