पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हा प्रिये ! कानु यातसि दशय क्षणमाननम् यैः सह क्रीडसे, सीते ! विश्वस्तैः मृगपोतकैः । एते हीनाः त्वया सौम्ये! * ध्यायन्त्यास्राविलेक्षणाः ॥ ५॥ घ्यायन्तीति। त्वामिति शेषः ॥ ५ ॥ ६१ सर्ग:] सीतया रहितोऽहं वै न हि जीवामि, लक्ष्मण ! 'मृतं शोकेन महता सीताहरणजेन माम् ॥ ६॥ परलोके महाराजः नूनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य यया त्वमभि योजितः ॥ ७ ॥ अपूरयित्वा तं कालं मत्सकाश मिहागतः । परलोकेऽपि मम धिक्कार: एव मरणेऽपि प्राप्नोतीत्याह--कथं प्रतिज्ञामिति । अभियोजितः । नियुक्त इत्यर्थः ॥ ७ ॥ 419

  • कामवृत्तमनायें मां मृषावादिनमेव च ॥ ८ ॥

धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता । विवशं शोकसंतसं दीनं मनमनोरथम् ॥ ९ ॥ मामिहोत्सृज्य करुणं 8 कीर्तिर्नरभिवानृजुम् । क गच्छसि ? वरारोहे ! मां नोत्सृज, सुमध्यमे ! ॥१०॥ त्वया विरहितबाहं मोक्ष्ये जीवितमात्मनः । मामिहोत्सृज्य क गच्छसि इत्यन्वयः ॥ ८-१० ॥

  • किमपि ध्यायन्ति- गो. चिन्तामझा इति यावत् । कथं मत्सकाश इ

आगत इत्यन्वयः । कामवृत्तं-स्वैरम् । § अमृजु नरं कीर्तिरिव करुणं मामुत्सृज्य क गच्छसि । 1 वृतं-ज. ? चोदित:-ड. 3 मितो गतः-ड.. त्यक्ष्ये-ज. 27*