सीताऽन्वेषणम् [अरण्यकाण्ड: "लेह पश्यामि, मौमित्रे वैदेहीं ! पर्वते शुभां' इत्युक्तोऽपि पुनर्विलापपरिहाराय लक्ष्मणो ब्रूते-तो दुःखाभिसंतप्तः इत्यादि । दीप्ततेजसं भ्रातरं लक्ष्मणो वाक्यं अब्रवीत् ॥ २३ ॥ 422 प्राप्स्यसि त्वं, महाप्राज्ञ ! मैथिली जनकात्मजाम् ॥ २४॥ यथा विष्णुः महाबाहुः बलिं बद्धा महीमिमाम् । किमिति: दण्डकारण्यं विचरन् त्वं सीतां प्राप्स्यसीति । तत्र दृष्टान्तः - यथा विष्णुंरित्यादि ॥ २४ ॥ एवमुक्तस्तु मौहार्दात् लक्ष्मणेन से राघवः ।। २५ ।। उवाच दीनया वाचा दुःखाभिहतचेतनः । वनं सर्व सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥ २६ ॥ गिरिश्वायं, महाप्राज्ञ ! बहुरुन्दरनिर्झरः | नेह पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ २७ ॥ एवं लक्ष्मणास्तु कृतं, करणेन किमित्याह वनं सर्वामित्यादि । 'नेह पश्यामी 'त्यादिमार्घश्लोकत्रयं प्राचीनगठे पाकम् । तत्तु कैश्चित् पुनरुक्तदुर्बुद्धया व्यक्तम् ॥ २७ ॥ एवं स विलपन् रामः सीताहरणकर्शितः । दीनः शोकसमाविष्टः मुहूर्त विहलोऽभवत् ॥ २८ ॥ विह्वलः-परवशः ॥ २८ ॥ 'वीरेण-ज.
पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/df/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D_%28%E0%A4%85%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%95%E0%A4%A4%E0%A4%95%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A4%AE%E0%A5%8D%29_%28%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_-_%E0%A4%85%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83%29.pdf/page455-856px-thumbnail.pdf.jpg)