पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ददर्श दानवं घोरं कबन्धं तत्र राघवः एकेनोरसि* घोरेण नयनेनाऽऽशुदर्शिना । महादंष्ट्रोपपन्नं तं लेलिहानं ी महामुखम् ॥ ३० ॥ मक्षयन्तं महाघोरान् ऋक्षसिंहमृगद्विपान् । + घोरौ भुजौ विकुर्वाणं उभौ योजनमायतौ ॥ ३१ ॥ ६. सर्ग:] कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् । आकर्षन्तं विकर्षन्तं अनेकान् मृगयूथपान् ॥ ३२ ॥ स्थित मावृत्त्य पन्थानं तयोः भ्रात्रोः प्रपन्नयोः । विवृद्धं विवृद्धाकारं। अशिरोग्रीवं - अदृश्यमानशिराग्रीवं, अत एव कबन्धं - अन्वर्थतन्नामकं । उदरे मुखं । अमूर्धमस्तकादित्यलुक् । तीक्ष्णैः । उपलक्षितमिति शेषः । ललाटस्थेन उच्यमानविशेषण केन उरः प्रदेशान्तर्गत शिरस्त्वेन उरसि - उरःप्रदेशे अन्तरुपलभ्यमानेन एकेनैव नयनेन उपलक्षितम् । अत्र महापक्ष्मेणेति मदन्तत्वमार्षम् । विकुर्वाणं – विक्षिपन्तम् । ऋक्षान्-भल्लूकान् । प्रपन्नयोरिति । § पन्थानमिति शेषः ॥ २७-३२ ॥ अथ तत् सममिक्रम्य क्रोशमात्रे || ददर्शतुः ॥ ३३ ॥ 481

  • पूर्व 'उदरे मुख' इति कथनात् उरस्स्थाने ललाटस्य नयनस्य चास्थितिः । अतो

ललाटस्थेन' इत्यनेन न विरोषः । + महामुखं — विपुलास्यरन्ध्रम्- गो. 'भक्षयन्तं' इत्यस्य विवरणरूपं— 'धौरौ भुजी' इत्यादि । ई पन्थानमावृश्य स्थितं - इति वक्तव्यत्वात् 'कं प्रपन्नयोः' इति प्रश्ने पन्थानमिति शेष इत्युक्तं भाति । पन्थानमित्यस्यावृत्तिव । गोविन्दराजेन तु प्रपन्नयो:- समीपं प्राप्तयोः तयोः पन्थान- मात्रस्य स्थितं - इति व्याख्यातम् । || सहानुजो ददशैत्यस्योपसंहार: कोशमात्रे ददर्शदुरिति । RAMAYANA VOL. IV 31