पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ सर्ग:]
19
सीतां त्यक्ता स तु क्रोधात् तौ गृहीत्वा विनिर्ययौ



 स प्रहस्येति । किमर्थमेतौ मयि शरवर्ष कुरुतः ? अहं तु शरावध्यः इत्युच्यमानावपीत्यतिहासः । ते बाणा इति । रामलक्ष्मण- विसृष्टाः कायान्निष्पेतुरिति-मुखद्वारा कायं प्रविश्य भित्त्वा काया- निष्पेतुरित्यर्थः । आशु - शीघ्रं गच्छन्तीति तथा ॥ १६ ॥

[१] [२]स्पर्शात्तु वरदानेन प्राणान् संराध्य राक्षसः |
विराधः शूलमुद्यम्य [३] राघवावभ्यधावत ॥ १७ ॥

 प्राणान् संरोध्य-धृत्वा । अतिदुःख प्राप्तोऽगीति शेषः ॥ १७ ॥

तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम् ।
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ॥ १८ ॥

 तच्छूलमिति-करस्थदशायामेवेति शेषः ॥ १८ ॥

तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि ।
पपताशनिना च्छिन्नं मेरोरिव शिलातलम् ।। १९ ।।

 अशनिः–दम्भोलिः ।। १९ ॥

तौ [४] खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ ।
तूर्णमापततस्तस्य तदा प्रहरतां बलात् ।। २० ।।

 प्रहरतां - प्राहरतामिति यावत् ॥ २० ॥

स वध्यमानः सुभृशं [५]भुजाभ्यां परिगृह्य तौ ।
अग्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥ २१ ॥
भुजाभ्यां परिगृह्येति — एकैकेन एकैकमिति यावत् ॥ २१ ॥



  1. स्पर्शात्-सम्बन्धात - गो. ति. रा. अथवा 'स्पृश बाधनस्पर्शनयोः' इति
    पातुप्रकृतिकत्वात् बाघनात: वरदान महिम्ना प्राणान् संरोध्येत्यर्थ: ।
  2. बलात्तु वरदानस्य - ङ. झ.
  3. राघवाय व्यसर्जयत्- ङ
  4. भुजा- ङ.
  5. बाहुभ्यां ङ.