पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
20
[अरण्यकाण्ड:
विराधकदनम्



तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।
वहत्वयमलं तावत् पथाऽनेन तु राक्षसः ॥ २२ ॥

 तस्याभिप्राय –– काननान्तर्नयनविषयकम् ॥ २२ ॥

यथा चेच्छति, सौमित्रे ! तथा वहतु राक्षसः |
अयमेव हि नः पन्थाः येन याति निशाचरः ॥ २३ ॥

 यथेच्छति तथा वहत्विति। [१]अनेन सुनिर्भयत्वं दर्शितम् ॥ २३ ॥

स तु स्वबलवीर्येण सुमुत्क्षिप्य निशाचरः ।
बालाविव स्कन्धगतौ [२] चकाराति [३]बलौ ततः ॥ २४ ॥

 स्कन्धगतौ चकारेति । स्कन्धमारोपयामासेति यावत् ॥

तावारोग्य ततः स्कन्धं राघवौ रजनीचरः ।
विराधो निनदन् घोरं जगामाभिमुखो वनम् ॥ २५ ।।

वनं महामेघनिभं प्रविष्टः
द्रुमैर्महद्भिः विविधैरुतम् ।
नानाविधैः पक्षिशतैः विचित्रं
शिवायुतं व्यालमृगैः विकर्णिम् ।। २६ ।।

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे तृतीयः सर्गः



 शिवाभिः युतं - शिवायुतं, अस्य नित्यपिशिताशनत्वात् तदुच्छिष्टपिशितापेक्षया शिवानैबिट्यम् | तरु (२६) मानः सर्गः ॥२६॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे तृतीय: सर्ग:



  1. इदमेव 'अप्रकम्प्थी' (श्लो. २१) इति विशेषगेनोक्तमिति भावः ।
  2. चचाराति-ङ.
  3. बलोद्धत:- ङ. झ.