पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

500 सीताप्राप्त्युपायकथनम् विमाने भास्वरे तिष्ठन् हंमयुक्ते यशस्करे । प्रभया च महातेजाः दिशो दश विराजयन् ॥ ६ ॥ सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् । [ अरण्यकाण्ड: हंसयुक्ते विमाने इत्यनेन ब्रह्मात्मना रामेण साक्षात् संस्कृतत्वात् जटायुवदस्यापि ब्रह्मलोकावाप्तिः सूचिता || ६ || -- शृणु, राघव ! तत्वेन यथा सीतामवाप्स्यसि ॥ ७ ॥ राम पट्युक्तयो लोके याभिः सर्वं विमृश्यते । तत्त्वेन – परमार्थतः । उच्यमानमिति शेषः । अथ यत् प्राक् प्रत्यायि, उपायं तद्विषयं मित्रं चोपदेक्ष्यामीति, तन्निवर्तयति - षडित्यादि । युक्तिदशोपायाः पर्यायाः । हे राम ! लोके कार्य- सिद्धये राज्ञां प्रसिद्धाः षड्युक्तयः - षडुपायाः सन्धिविग्रइयानासन- द्वैधीभाव समाश्रयाः सन्ति । याभिर्युक्तिभिः सर्वे राज्ञां कृत्यं विमृश्यते — विमृश्य प्राप्यते ॥ ७ ॥ 'परिभ्रष्टो *दशान्तेन दशाभागेन सेव्यते ॥ ८ ॥

  • दशा नाम दौरथ्यरूपावस्था, तस्या अन्तः- परिपाकः, तेन परिमृष्ट:-संस्पृष्टः

पुरुष: दशाभागेन-दशाया: भाग:- परिपाकरूपः अंशः यस्य तेन सेव्यते । अस्तु, प्रकृते किमायातं ? तत्राह-दशाभागगत इति । हे राम सलक्ष्मणस्त्वं दशाभ गगतः- दुर्दशापश्न: अत एव हीनश्च । कुन: ? यस्कृते- येन कारणेन दारप्रघर्षणं नाम व्यसनं प्राप्तं; तेन त्वं दशाभागगतः । ततोऽपि किमित्यत्राह-तदिति । दशाभागगतेन त्वया सः - तादृशः - दशाभागगतः कश्चित् सुहृत् कार्य:- गो. यद्वां- षडघुक्तयः - प्रत्यक्षानु- मानोपमान शब्दार्थापरूयभावप्रमाणानि; पार्थसारथिमिश्रे: शास्त्रदीपिकायां युक्तिशब्दस्य प्रमाणपरतया व्याख्यातत्वात्। हे राम लोके षड्युक्त:-षट्प्रमाणानि सन्ति ; याभि: प्रत्यक्षादिभिः सर्व वस्तु विमृश्यते-शाप्यते । सर्वप्रमाणः क्षीणः पुरुषः क्षीणेन पुरुषेण सेव्यत इत्यर्थ:-ती. 1 परिमृष्टी- -ङ, ज.