पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यरूपो विमाने च तिष्ठन् प्राइ च राघवम् दशाभागगतो हीनः त्वं हि रामः सलक्ष्मणः | यत्कृते व्यसनं प्राप्तं त्वया दार' प्रधर्षणात् ॥ ९ ॥ - ताः सन्ति, किं ततः ? इत्यतः - परिभ्रष्ट इति । परिभ्रष्टः- अर्थात् भ्रष्टः राजा दशान्तेन दशानां - उपायानां षण्णां अन्तः तथा तेन - अन्तिमोपायरूपेण दशाभागेन – उपायभागेन मित्रसमा- श्रयलक्षणनैव सेव्यते । प्रकृते त्वं दशाभागगतोऽपि - अन्तिमोपाया- श्रययोग्यतां गतोऽपि तेनान्तिमापायेन, हे राम ! सहलक्ष्मणस्त्वं हीनः, यत्कृते यदाश्रयाभावापराधादेव दारप्रघर्षणात् व्यसनं प्राप्तम् ॥ ७२ सर्ग:] तदवश्यं त्वया कार्यः स सुहृत्, सुहृदां वर ! अकृत्वा हि न ते सिद्धिं अहं पश्यामि चिन्तयन् |॥१०॥ यदेवमतः – तत् — तस्मात् अवश्यं स्वया सुहृत्समाश्रयणं कार्यम् । अवश्यमित्यत्र हेतुमाह — अकृत्वेत्यादि ॥ १० ॥ 501 श्रूयतां, राम ! वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ ११ ॥ ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते ।

  • निवसत्यात्मवान् वरिः चतुर्भिस्सह वानरैः ।। १२ ।।

एवं समाश्रयणोपाय अद्य भ्रष्टदशोचितमुपदिश्य तद्विषयं चोपदिशति – श्रूयतामिति । पम्पायाः पर्यन्ते शोभितः तथा । चतुर्भिरिति । मन्त्रिमिरिति शेषः ।। ११-१२ ।। वानरेन्द्रो महावीर्यः 'तेजोवान् अमितप्रभः ।

  • श्लोकद्वयमेका वयि - रा.

1 1 प्रवर्षणम्-ङ, ज. 2 तेजसा च रविप्रभ:- ङ,