पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

514 ऋष्यमूकमार्गकथनम्

राम ! तस्य तु शैलस्य महती शोभते गुहा । 'शिलापिधाना, काकुत्स्थ ! दुःखं चास्याः प्रवेशनम् ॥ ऋष्यमूकस्यासाधारणचिह्नोपदेश:-

- राम तस्य स्वित्यादि ।

18 2 तस्या गुहायाः प्राग्द्वारो महान् शीतोदको हृदः । फलमूलान्वितो रम्यः | नाना मृगसमावृतः ॥ ४२ ॥ तस्यां वसति 'सुग्रीवः चतुर्भिः सह वानरैः । + कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति ॥ ४३ ।। कदाचित् तस्य शिखरे तिष्ठति । अपिशब्दात् अघश्च तिष्ठति ।। [अरण्यकाण्ड: कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ । स्रग्वी भास्करवर्णाभः ब्रे व्यरोचत वीर्यवान् ॥ ४४ ॥ तं तु खस्थं 'महाभागं ' कबन्धं रामलक्ष्मणौ । S8 प्रस्थितौ त्वं व्रजस्वेति वाक्यसूचतुरन्तिके ॥ ४५ ॥

  • शिलापिधानेति गुहानामेति ज्ञातव्यम्-ती. शिला पिधानं आच्छादनं

यस्याः सा-रा., गो. गुहाद्वारे महती शिला आवृत्य वर्तत इति भावः । एतेन गुहाया: सावधानान्वेषणीयत्वं बोध्यते । ↑नानानगेति पाठे-नगाः वृक्षाः । 4. कदाचित् गुहायां तिष्ठति, कदाचित् पर्वतस्य शिखरेऽपि तिष्ठति-रा. कदाचित् भूमाविति सिद्धम् - गो. ‘वालिना इतकिल्बिष: ' इति कथनेन भयात् सदा गुहायामेव स्यादिति मस्वा तत्रान्विष्य तत्रादर्शनमात्रेण न तूष्णीं स्थातव्यं, गुद्दा तु वासस्थानं, बहिरपि अन्वेषणीय: त्वया इति भावेन गुहायां वसति, शिखरेऽपि कदाचित्तिष्ठतीत्युच्यते । § प्रस्थितौ सन्तौ - गो. अथवा लोक इव 'वयं प्रस्थितौ, स्वमपि व्रज' इत्यथैः । 2 तस्य गुहायां वृद्धायां- इ. 3 नग-ज. * धर्मात्मा ● महाबाहुं - ङ. 7 तावुभौ-ज. ६ प्रस्थित:-ङ. VINOVAAAA महतः शोभना--ङ. 5 वतिष्ठते-झ. सुप्रीवः - ज.