पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ददर्श शयरी सिद्धां मूर्तामिन तपः श्रियम् पाद्यमाचमनीयं च सर्व प्रादाद्यथाविधि । सिद्धा- सिद्धयोगा ॥ ६ ॥ ७४ सर्ग:] तामुवाच ततो रामः श्रमणीं *शंसितव्रताम् ॥ ७॥ कञ्चित्ते निर्जिता विघ्नाः ? कच्चित्ते वर्धते तपः ? कञ्चित्ते " नियतः कोपः आहारत्र, 2 तपोधने ! ॥ ८ ॥ कञ्चित्ते नियमाः प्राप्ताः ? कच्चित्ते मनसः सुखम् ? कञ्चित्ते गुरुशुश्रूषा सफला ? चारुभाषिणि ! ॥ ९ ॥ - विघ्नाः- तपोविन्नाः कामादयः । कोपः नियतः निगृहीतः । 517 कञ्चित् आहारश्चेति । नियत इत्यनुकर्षः ।। ८-९ ।। रामेण तापसी पृष्टा सा सिद्धा सिद्धसंमता | शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ।। १० ।। अद्य प्राप्ता तपस्सिद्धिः तव सन्दर्शनान्मया । अद्य प्राप्ता तपस्सिद्धिरिति उपचारवत् शबर्याः परमार्थ- दृशा बादः । तथा अग्रेऽपि ॥ १० ॥ अद्य मे सफलं 'जन्म गुरवध सुपूजिताः ॥ ११ ॥ शंसितव्रता -- तीक्ष्णबताम् । स्ववतपरिपालने इतिजागरूकामिति यावत् । प्रत्यवस्थिता-ज. सप्ले-ड. "धर्मसंस्थिताम्-ज. 2 निर्जितः-ड.