गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ।। १० ।।
अन्तरिक्षगतं देवं वाग्भिरग्रयाभिरीडिरे ।
सह संभाषमाणे तु शरभङ्गेण वासवे ।। ११ ।।
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।
वासवे - उक्तलक्षणे शरभङ्गेण संभाषमाणे तु तं शतक्रतुं इति रामो दृष्ट्वा - ज्ञात्वा अब्रवीत् ॥ ११ ॥
तदेव प्रपञ्चयति - रामोऽथेत्यादि । उद्दिश्य-हस्तेन अपरोक्ष निर्दिश्येत्यर्थः : ।। १२ ।।
अर्चिष्मन्तं श्रिया जुष्टं अद्भुतं पश्य, लक्ष्मण !
प्रतपन्तमिवादित्यं अन्तरिक्षगतं रथम् || १३ ||
ये हया: [३]पुरुहूतस्य पुरा शक्रस्य नः श्रुताः
अन्तरिक्षगताः दिव्याः त इमे हरयो ध्रुवम् ॥ १४ ॥
पुरु-बहु-अनेकयजमानैः यागायाहूतः इति पुरुहूतः ॥ १४ ॥
इमे च पुरुषव्याघ्राः ये तिष्ठन्त्यमितो [४].रथम् ।
शतं शतं कुण्डलिनः युवानः खड्गपाणयः ।। १५ ।।
शतं शतमिति । अष्टदिक्ष्वपीति शेषः । शतशब्दोऽनेकवाची । कुण्डलिनः- कर्णाभरणवन्तः ॥ १५ ॥