एतत् पृष्ठम् अपरिष्कृतम् अस्ति
36
[अरण्यकाण्ड:
शरभङ्गदर्शनम्
अथ विशेषसत्कारार्थं ऋषिराइ-इ-अक्षया इत्यादि । के ते लोकाः जिताः इत्यतः - ब्राह्मया इत्यादि । उभयत्र च तौ छान्दसौ । ब्राह्माः लोकाः, नाकपृष्ठाः लोकाश्च जिताः, मामकांस्तान् प्रतिगृह्णीष्व प्रीतेन मया प्रीतिदानत्वेन दीयमानानिति शेषः ॥ ३० ॥
एवमुक्तो नरव्याघ्रः सर्वशास्त्र [३] विशारदः ।
ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ॥ ३१ ॥
प्रदिष्टमिति ! त्वयेति शेषः ॥ ३२ ॥
राघवेणैवमुक्तस्तु शक्रतुल्यवलेन वै ।
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ।। ३३ ।।
- ↑ रामस्य राज्यभ्रंशं शात्वा वा एवमाह मुनिः । तिलके तु-'अनेन सर्वकर्मणां
भगवदर्पण मकरोदिति सूचितम्' इत्युक्तम् । तीथें- गोविन्दराजीयेऽप्येयमेव । अनन्तर
लोकटिप्पणी द्रष्टव्या | - ↑ राम तान्-ड
- ↑ विदांवरः-ङ.
- ↑ शरभङ्गप्रार्थनां अङ्गीचकारेत्युच्यतेऽनेन श्लोकेनेति-ती. गो.
प्रभृतयः । परन्तु सप्तमे सर्गेऽपि सुतीक्ष्णवाक्ये ' चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ।
इहोपयातः काकुत्स्थ ! देवरराजः शतक्रतुः | उपागम्य च मां देवः महादेवः सुरेश्वरः ।
सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा । तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।
मत्प्रसादात् सभार्थत्स्वं विहरव सलक्ष्मणः । तमुग्रतपसा युक्तं महर्षि सत्यवादिनम् ।
प्रत्युवाचात्मवान् रामः ब्रह्मणमिव काश्यपः । अहमेवाहरिष्यामि स्वयं लोकान् महामुने !
आवासं त्वहमिच्छामि प्रदिष्टमेह कानने' इति दर्शनात् रामस्य राज्यभ्रंशज्ञानादेवेदमुक्त-
मिति स्पष्टमवगम्यते ॥ - ↑ स्वयं लोकान्- ङ