तासामाक्रन्दशब्देन सहसोद्गतचेतने ।
कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥ २२ ॥
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।
हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ २३ ॥
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ।
न बभ्राज रजोध्वस्ता तारेव गगनात् च्युता ॥ २४ ॥
नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ।
अपश्यन् ताः स्त्रियः सर्वाः हतां नागवधूमिव ॥ २५ ॥
[१] शान्तगुणे - उपशान्तजीवनाभिवदनादिधर्मे-मृते सतीति यावत् ॥ २५ ॥
ततः सर्वा नरेन्द्रस्य यद्यपि [२] कैकेयीप्रमुखाः स्त्रियः । रुदन्त्यः शोकसन्तप्ताः निपेतुर्गतचेतनाः ॥ २६ ॥ ताभिः स बलवान् नादः क्रोशन्तीभिरनुद्रुतः । येन [३]स्फीतिं गतो भूयः तद्गृहं समनादयत् ॥ २७ ॥ ताभिरिति । क्रोशन्तीभिस्ताभिरुत्थापितो बलवान् नादः, येन-हेतुना अनुद्रुतः -प्रतिध्वनिना गृहमनुप्राप्तः, तत एव भूयः- अभ्यधिकं स्फीतिं, क्तिनि स्फीभावः छान्दसः, वृद्धिं गतो भूत्वा तद्गृहं समनादयत् ॥ २७ ॥