पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
96
[अयोध्याकाण्ड:
दूतप्रेषणम्

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ।
[१]उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् ॥ १५ ॥

 शरदण्डां-तदाख्यां नदीम् । उपातिजग्मुरिति । उपगम्य अतिक्रान्ता इत्यर्थः ॥ १५ ॥

निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् ।
[२]अभिगम्याभिवाद्यं तं [३]कुलिङ्गां प्राविशन् पुरीम् ॥१६॥

 निकूलेत्यादि । शरदण्डायाः निकूलवृक्षं-पश्चिमतीरवर्तिवृक्षं ; दिव्यं-विशिष्टदेवताधिष्ठितं; सत्योपयाचनं-सत्योपयाचनाख्यं, सत्यं उपयाचनं यस्मात्, अन्वर्थनामकत्वादिष्टप्रदं; अत एव अभिवाद्यं- सर्वनमस्कार्यं तं वृक्षमभिगम्याभिवाद्य च कुलिङ्गाख्यां पुरीं प्राविशन् ॥ १६ ॥

अभिकालं ततः प्राप्य [४]ते बोधिभवनात् च्युताः ।
पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम् ॥ १७ ॥

 अभिकालं ग्रामं प्राप्य ततो [५]बोधिभवनं ग्रामं प्राप्य ततः च्युताः- निर्याताः इक्ष्वाकूणां पितृपैतामहीं पुण्यां इक्षुमतीं नदीं तेरुः । तथा च बालकाण्डे विश्वामित्रजनकयज्ञयात्रायामुक्तम् ॥ १७ ॥

अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान् ।
ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम् ॥ १८ ॥


  1. अतीत्य जग्मुः-च.
  2. अभिवाद्याभिवाद्यं - ङ.
  3. केकयदेशस्य दक्षिणतः कुरुक्षेत्रस्योत्तरतः सरस्वतीतीरे विद्यमानो देश: ।
  4. तजोऽभिभवनात् च्युताम्,
    ततो योधिवनच्युता:-च.
  5. बोधिभवनात्—तदाख्यात् पर्वतात्-नदीमूलत्वोक्तेः-गो.