पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९ सर्ग:]
101
तस्यासीदवशादेव हृदये तु महद्भयम्

पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् ।
प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ॥ १४ ॥

 कृष्णाश्च पिङ्गलाश्च तथा ॥ १४ ॥

त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ।
रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ १५ ॥
[१]प्रहसन्तीव राजानं प्रमदा रक्तवासिनी ।
प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ॥ १६ ॥

 प्रहसन्ती इव इति पदम् ॥ १६ ॥

एवमेतन्मया दृष्टं [२] इमां रात्रिं भयावहाम् ।
[३] अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥ १७ ॥

इमां रात्रिमिति । अस्यां रात्र्यामित्यर्थः। अहं मरिष्यामीति विपरिणामः कार्यः ॥ १७ ॥

नरो यानेन यः स्वप्ने खरयुक्तेन याति हि ।
अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ॥ १८ ॥

 नरो यानेनेत्येतत् स्वप्नस्य प्रत्यक्षदर्शनात् । यथा- 'स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्युपक्रम्य - 'खरैः वराहयुक्तैर्याति' इति श्रुतिसिद्धत्वात् एतद्बलेन प्रागुक्तपितृखरयानफलावश्यंभावं निश्चिनोति । धूमाग्रं धूमशिखा ॥ १८ ॥


  1. प्रहरन्तीव - ङ.
  2. इमां रात्रिमिति पूर्ववत् (१ श्लो.) बोध्यम् ॥
  3. यद्यपि 'स्वप्ने पितरमद्राक्षं इत्येवोक्तम्, अथापि अनिष्टस्य इतरेषु चिन्तनापेक्षया स्वस्मिन् चिन्तनं तन्मनस
    औदार्यादिकं सूचयति ।