पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
102
[अयोध्याकाण्ड:
भरतदुस्स्वप्रदर्शनम्


[१]एतन्निमित्तं दीनोऽहं [२] [३] न वचः प्रति पिप्रिये ।
शुष्यतीव च मे कण्ठः न स्वस्थमिव मे मनः ॥ १९ ॥

 एतन्निमित्तमिति। विशिष्यानन्तरोक्तमित्यर्थः। दृष्ट्वेति शेषः । दीनोऽहं युष्माकं वचः प्रति - उद्दिश्य न पिप्रिये-न भृशं प्रीतो भवामि, प्रीङो यङन्ताल्लट्, अभ्यासगुणाभावादिश्छान्दसः ॥ १९॥

न पश्यामि भयस्थानं भयं चैवोपधारये ।
भ्रष्टश्च खरयोगो मे छाया चोपहता मम ॥ २० ॥
[४] जुगुप्स इव चात्मानं न च पश्यामि कारणम् ।

 भयस्थानं - भयकारणं न पश्यामि, अथ च भयमुपधारये- अवशतो बिभेमि। छाया–शोभा । आत्मानं जुगुप्स इवेति । किंजन्माहमस्तीत्येवमात्मनि जुगुप्सा । कारणं-जुगुप्साकारणम् ॥ २० ॥

[५] इमां च दुस्खप्नगतिं निशाम्य तां
अनेकरूपां अवितर्कितां पुरा ।
भयं महत्तद्धृदयान्न याति मे
विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २१ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः



  1. एतन्निमित्तं- उक्तस्वप्नदर्शनहेतुना-गो. अस्यां व्याख्यायां दृष्ट्वेति नाध्याहार्यम् ।
  2. वचः युष्माकं न प्रतिपूजये-ति. अत्र कतकव्याख्याप्यनूदिता तिलके । न वचः प्रतिपूजये-न किञ्चित् वक्तुं शक्नोमीति तात्पर्यः ॥ न च वः - इति पाठे तु वः- युष्मान् न पूजये-मनोवैय्याकुल्यादित्यर्थः ॥
  3. न च वः प्रतिपूजये-ङ. न वचः प्रतिपूजये-च.
  4. जुगुप्सन्निव-ङ.
  5. स्वप्नश्च पूर्वचिन्तापुरस्कृतो न फलति, प्रत्यूषे च फलति सद्यः । यामविलम्बात् फलविलम्ब: ।
    फलं च द्रष्टुः दृष्टस्य तत्सम्बन्धिनो वा भविष्यति- गो.