पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१ सर्ग:]
119
अपश्यन् पितरं तत्र खिन्नो मातृगृहं ययौ


 देवतार्चा:-देवताप्रतिमाः, 'अर्चा पूजाप्रतिमयोः' इति वैजयन्ती, प्रविद्धाः- निरस्तपूजनाः । तथा यज्ञगोष्ठयः-देवालयवर्तितत्तद्देवतायागशालाः प्रविद्धाः । माल्यापणा:-माल्यविक्रयापणाः ॥ ४० ॥

दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै ।
[१]ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः ।[२] ॥ ४१ ॥

 अत्र--आपणे। नष्टव्यापाराः, अत एव यन्त्रिता:-सङ्कुचितापणाः, यत्रि सङ्कोचे, तस्मान्निष्ठा ॥ ४१ ॥

मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानतरं कृशम् ।
सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे
[३]॥ ४२ ॥

 मलिनं-मलिनत्वादिगुणकं, स्त्रीपुंसविशेषणम् । स्त्रीपुंसं, अच्प्रत्ययान्तो निपातः ॥ ४२ ॥

तां शून्यशृङ्गाटकवेश्मरथ्यां
[४] रजोरुणद्वारकपाटयन्त्राम् ।
[५]दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां
दुःखेन संपूर्णतरो बभूव ॥ ४३ ॥

 शृङ्गाटकं - चतुष्पथम् । रजोऽरुणानि-रजोधूसराणि द्वारकवाटानि, द्वारयन्त्राणि च तथा ॥ ४३ ॥


  1. चिन्ताऽऽसक्तहृदयाः, अत एव नष्टव्यापारयन्त्रिता:
  2. एतदनन्तरं - देवायतनचैत्येषु दीनाः पक्षिगणास्तथा— इत्यधिकं ङ. झ.
  3. पतदनन्तरं -इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः । तान्यरिष्टान्ययोध्यायां प्रेक्ष्य
    राजगृहं ययौ -- इत्याधिकं-ङ. झ.
  4. जनानां सर्वप्रवृत्तिष्यौदासीन्यादेवम् ।
  5. पूर्वं इन्द्रपुरीवत् प्रकाशां दृष्ट्वा स्थितः, इदानीं शून्यशृङ्गाटकादिविशेषणवतीं पुरीं दृष्ट्वा दुःखेन संपूर्णतरो बभूव ।