पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२ सर्गः ]
127
श्रुत्वा सर्वं तदुद्विग्नो भरतो मूर्छितोऽभवत्


 इति विलपन् गत इति । न कं प्रति किञ्चिदपि साधुसन्देशमवोचदित्यर्थः ॥ ३६॥

[१] [२] इमां तु पश्चिमां वाचं व्याजहार पिता तव ।
कालधर्मपरिक्षिप्तः पाशैरिव महागजः ॥ ३७ ॥

 इमां तु पश्चिमां वाचमिति । प्रागुक्तविलापरूपामित्यर्थः ॥ ३७॥

सिद्धार्थास्ते नरा रामं आगतं सीतया सह ।
लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ ३८ ॥

 अन्यदपि किञ्चित् विलापवचनं चरमकाले ? इत्यत्राह-सिद्धार्था इत्यादि ॥ ३८ ॥

तच्छ्रुत्वा विषसादैव [३] द्वितीयाप्रियशंसनात् ।
विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ॥ ३९ ॥
क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च [४]समं गतः ॥ ४० ॥

 क्व चेदानीं गत इति योजना ॥ ४० ॥

तथा पृष्टा यथातत्त्वं आख्यातुमुपचक्रमे ।
माताऽस्य [५] युगपद्वाक्यं विप्रियं प्रियशङ्कया ॥ ४१ ॥


  1. इमामित्यादिश्लोकद्वयमेकान्वयम्-गो.
  2. इतीमां-ङ.
  3. यद्यप्यद्य भरतेन रामप्रव्राजनं नावगतम् । 'अत एव क्व गत: ' इति प्रक्ष्यति । अथापि रामानुपस्थितिरूपं, तत्रापि
    'दक्ष्यन्ति पुनरागतम्' इत्यादिवचनात् चिरप्रोषितत्वप्रतीत्या अप्रियत्वं विवक्षितम् ।
  4. समागतः - च.
  5. युगपत् - राजमरणकथनसमकालमेव- गो. ती. ति. वस्तुत:-वक्ष्यमाणस्य विषयस्याति दारुणत्वेन कथनकाले संकोचादिना वाच एवाप्रवृत्या विलम्ब्य विलम्ब्योच्चारणीयाक्षरत्वस्य न्याय्यत्वे हठात् सर्वमेकदैव विनैव सङ्कोचं निरोधं च उक्तवतीत्यर्थः ॥