पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
130
[ अयोध्याकाण्ड:
भरतसन्तापः


तत्, पुत्र ! शीघ्रं विधिना विधिज्ञैः
वसिष्ठमुख्यैः सहितो [१]द्विजेन्द्रैः ।
[२]संकाल्य राजानमदीनसत्त्वं
आत्मानमुर्व्यामभिषेचयस्व ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विसप्ततितमः सर्गः


संकाल्येति । प्रेतनिर्हारं कृत्वेत्यर्थः । शम(५५)मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विसप्ततितमः सर्ग:



त्रिसप्ततितमः सर्गः
[भरतसन्ताप:]

[३]

श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।
भरतो दुःखसन्तप्तः इदं वचनमब्रवीत् ॥ १ ॥


  1. मुनीन्द्रैः - ङ.
  2. संस्कार्य, संकल्प्य - ङ.
  3. एतत्पूर्वं-

    "कैकेय्याप्येवमुक्तस्तु भरतो राघवानुजः । कर्णौ कराभ्यां प्रच्छाद्य पपात घरणीतले ॥
    हा राम रामेति तदा विलप्य करुणं बहु । मुहूर्तमिव निस्संज्ञ: संज्ञावानिदमब्रवीत् ॥
    हतोऽस्मि राजा निहत: इतो लोकश्च दुर्मते । किमिदं शिक्षितं केन कस्य कार्यं त्वया कृतम् ॥
    राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् । राज्यमत्र फलं भोक्तुं अनुतिष्ठसि दुर्मते ॥
    रामप्रस्थापितायाश्च पतिघ्नथाश्च तवोदरे । दश मासा मया नीता: हा लोके निन्दितो ह्यहम् ॥
    कण्ठेऽवसज्य वा पाशं विषं पीत्वाऽथ वा शठे । त्यज प्राणांश्च दुर्मेधे जलमग्निं प्रविश्य वा ॥
    त्वामद्य निहनिष्यामि नो चेद्रामस्य दुर्यशः । राघवस्यानुजो भ्राता भरतो मातृहा इति ॥
    एवं परुषमुक्त्वा तु निर्दहन्निव चक्षुषा । निरीक्षमाणे भरते कैकेयी वाक्यमब्रवीत् ॥
    किं मयाऽपकृतं तेऽद्य गर्हसे मां मुहुर्मुहुः । प्रसूय वर्धयित्वा त्वां पदस्थं द्रष्टुमिच्छती ॥
    पिता ते स्वर्गतो राजा भ्रातरौ च विवासितौ। बहुना किं प्रलापेन कुरु राज्यं यथासुखम् ॥’'

    एवमधिकं-झ.