पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३ सर्ग:]
135
उत्पन्ना ते कथं बुद्धिरियं सर्वविनिन्दिता


पुत्रगर्धिनीं - पुत्रप्रयोजनाभिलाषवर्तीं त्वां सकामां- संप्राप्तकामां न करिष्यामि – राज्याभिषेकं न करिष्यामि, कुलदूषणपरमकश्मलत्वादित्याशयः ॥ १७ ॥

न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
यदि रामस्य [१] नावेक्षा त्वयि स्यान्मातृवत्सदा ॥ १८ ॥

 अपि च ' त्यजेदेकं कुलस्यार्थे' इतिन्यायेन ते सांप्रतं विवासनमेव कार्यम्, तदपि - त्वय्यपि रामस्य भगवतो मातृप्रतिपत्त्यपरिक्षयात् मया न शक्यते, रामचित्तस्य दूरं भविष्यामीति शङ्कयेत्याह – न म इति । रामस्य त्वयि मातृवत् – कौसल्यावत् त्वयि सदाऽवेक्षा- प्रतीक्षा - प्रतिपत्तिः यदि न स्यात्, तदा पापनिश्चयां त्वां परित्यक्तुं मे विकाङ्क्षा - इच्छाभावो नैव जायेतेति योजनार्थः ॥ १८ ॥

उत्पन्ना तु कथं बुद्धिः तवेयं, पापदर्शिनि !
साधुचारित्रविभ्रष्टे! पूर्वेषां नो विगर्हिता ॥ १९ ॥

इयं बुद्धिरिति । [२]कनिष्ठस्य मेऽभिषेकबुद्धिरित्यर्थः ॥ १९ ॥

अस्मिन् कुले हि [३]पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन् [४]प्रवर्तन्ते समाहिताः ॥ २० ॥

 विगर्हितत्वमेव दर्शयति — अस्मिन्नित्यादि । अस्मिन्- अस्मदीये कुले ज्येष्ठोऽभिषिच्यते, अपरे भ्रातरस्तस्मिन्- तत्कार्ये समाहिताः


  1. अवेक्षा–भक्तिपूर्वकेक्षणं-गो. ती.
  2. जोष्टविवासनपूर्वकमिति शेषः ।
  3. सर्वेषां - ङ.
  4. समाहिताः प्रवर्तन्ते – पितरीव तच्चित्तानुवर्तने वधाना जीवन्तीत्यर्थः - गो. ज्येष्ठाधीना वर्तन्त इत्यर्थः-ती.