पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्गः ]
149
सा त्विष्टं भरतस्थापि मेने रामविवासनम्


 दीर्घदर्शिनमिति । एवं कृते एवं भविष्यतीति ऐहिकामुष्मिककर्मणः कालान्तरीयफलदर्शनक्षमसुमतिमानित्यर्थः । इदं तद्दर्शनप्रवृत्तिप्रयोजकम् ॥ ६ ॥

एवमुक्त्वा सुमित्रां तां [१]विवर्णवदना कृशा ।
प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥ ७ ॥
स तु [२] राजात्मजश्चापि शत्रुघ्नसहितस्तदा ।
प्रतस्थे भरतो [३] येन कौसल्याया निवेशनम् ॥ ८ ॥

 येन - मार्गेणेत्यर्थः । निवेशनमिति । प्राप्यत इति शेषः ॥ ८ ॥

[४]ततः शत्रुघ्नभरतौ कोसल्यां प्रेक्ष्य दुःखितौ ।
पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् ॥ ९ ॥

 कौसल्यां – स्वगृहात् प्रस्थातुमुद्यताम् ॥ ९ ॥

रुदन्तौ [५][६] रुदती दुःखात् समेत्यार्या मनस्विनी ।
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ॥ १० ॥
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् ।
संप्राप्तं, बत! कैकेय्याः [७] शीघ्रं क्रूरेण कर्मणा ॥ ११ ॥
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ।
कैकेयी कं गुणं तत्र पश्यति [८] क्रूरदर्शिनी ॥ १२ ॥


  1. विवर्णा मलिना-ङ.
  2. रामानुज-ङ.
  3. यत्र-ङ.
  4. एवमुभयो: प्रयत्नेऽपि कौसल्याया वृद्धात्वात् सप्ताष्टदिनै: बहुषा परिभूतत्वाच्च
    तस्याः प्रस्थानात् -अथवा किञ्चिद्दूरप्राप्तेः पूर्वमेव भरतशत्रुघ्नौ कौसल्यागृहं प्राप्ताविति
    गम्यते ।
  5. ‘रुदतीं' इत्यादिद्वितीयान्तपाठे तु अस्यार्थस्य पूर्वेणान्वयः ।
  6. रुदतीं-ङ.
  7. राज्ञः अकालमरणादिना भवन्निरीक्षितकालादपि शीघ्रं प्राप्तं राज्यं इति वाऽर्थः । अत एव पूर्वं
    दीर्घदर्शिनं, इति, अत्र 'कैकेय्याः क्रूरकर्मणा' इति च स्वरसतः संगच्छते ।
  8. क्रूरदर्शना-ङ.