पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=162|center=भरतशपथः|right=[[अयोध्याकाण्ड:}}


 शोकसंरोधात् – शोकस्मरणजान्मोहात् - मूर्छया मनः लुलितं--क्षुभितं बभूव ॥ ६४ ॥

[१] तमेवं शोकसन्तप्तं भरतं कैकयीसुतम् ।
उवाच वदतां श्रेष्ठः वसिष्ठः श्रेष्ठवागृषिः ॥ ६५ ॥

 वसिष्ठ उवाचेति । भरतागमनं श्रुत्वा तद्दुःखापनोदनार्थम् आगत इति शेषः ॥ ६५ ॥

अलं शोकेन, भद्रं ते, राजपुत्र ! महायशः !
प्राप्तकालं नरपतेः कुरु [२] संयानमुत्तमम् ॥ ६६ ॥
संयानं-प्रेतहरणम् ॥ ६६ ॥


[३]लालप्यमानस्य विचेतनस्य
प्रणष्टबुद्धेः पतितस्य भूमौ ।
मुहुर्मुहुर्निश्वसतश्व धर्मं
सा तस्य दुःखेन जगाम रात्रिः ॥ ६७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः


 घर्मं-उष्णं यथा तथा निश्वसतः । अतर्ष (६६ १/२) (?) मानः सर्गः ॥ ६७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चसप्ततितमः सर्ग:


  1. तीर्थगोविन्दराजतिलकादिरीत्या -’ तमेवं ’ इत्यादिश्लोकद्वयं अनन्तरसर्गारम्भे
    पठनीयम्, कतकदृष्ट्या तु ’लालप्यमानस्य’ इत्यादिश्लोकात्पूर्वमस्मिन्नेव सर्गे- इति
    अनन्तरसर्गोपक्रमव्याख्यानादवगम्यते ।
  2. संयानं - सम्यग्यानं - स्वर्गप्रापकक्रियाजातमित्यर्थ:- गो. ती.
  3. यद्यपि कौसल्यया समाश्वासितो भरत: ; अथापि कौसल्यामुखात्
    तादृशमहत्तरापवादश्रवणजदुःखस्यानुवृत्त्या दशरथमरणरामविवासनशोकेन च संकटानुभवो भरतस्य ।