पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=170|center=भरतशत्रुघ्नविलापः|right=[[अयोध्याकाण्ड:}}

[१] स तु पपातेति द्वितीयतच्छब्दस्य सम्बन्धः । शक्रस्य यन्त्रध्वज इवेति । आकाशस्थशक्रध्वजस्य भूमौ पातायोगात् यन्त्रेत्यलङ्कारार्थं, ध्वजयन्त्ररूपेण निर्मितः शक्रयन्त्रध्वजः ॥ ९ ॥

अभिपेतुस्तत[२].स्सर्वे तस्यामात्याः शुचिव्रतम् ।
[३]अन्तकाले निपतितं ययातिमृषयो यथा ॥ १० ॥
[४]शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ।
[५]विसंज्ञो न्यपतत् भूमौ भूमिपालमनुस्मरन् ॥ ११ ॥
उन्मत्त इव निश्चित्तः विललाप सुदुःखितः ।
स्मृत्वा पितु[६]र्गुणाङ्गानि तानि तानि[७] तदा तदा ॥ १२ ॥

तदा तदा – तस्मिन् तस्मिन् उपलालनकालभेदे गुणाङ्गानि- उपलालनस्याङ्गभूतानि कर्माणि - विचित्रवस्त्राभरणादिदानाङ्कारोपणालिङ्गनादि कर्माणि स्मृत्वा विललाप ॥ १२ ॥

मन्थराप्रभवस्तीव्रः कैकेयी[८]ग्राहसंकुल: ।
वरदानमयोऽक्षोभ्यः अमञ्जयच्छोकसागरः ॥ १३ ॥

 वरदानमयत्वादक्षोभ्यः । अमज्जयदिति । अस्मानिति शेषः ॥

सुकुमारं च बालं च सततं लालितं त्वया ।
क्व, तात ! भरतं हित्वा विलपन्तं गतो भवान् ॥ १४॥


  1. पूर्वश्लोकान्तर्गत 'स' शब्दस्यास्य चाव्यवधानात् द्वितीयतच्छन्द इत्युक्तिः ।
  2. स्सद्यः-ङ.
  3. अन्तकाले – पुण्यक्षयकाले निपतितं ययातिं ऋषय: – दौहित्रभूता इव-गो.
  4. भरतपतनावधि शत्रुघ्नस्य धैर्यं स्थितं, तत्पतनानन्तरं सोऽपि गलितधैर्योऽभूदिति भावः ।
  5. निश्चित्तो-ङ,
  6. गुणाङ्गानि-गुणान् अङ्गानि च-गो.
  7. तथा तथा- ङ.
  8. ह्रद-ङ,