पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८० सर्ग:]
185
आदिशन्मार्गशुद्ध्यर्थं तत्तत्कर्मकरानपि


निर्माणे समर्थास्तथा – सूत्रकर्मविशारदाः । स्वकमाभिरताः-अर्ध्वपालनरूपस्वकर्माभिरताः । यन्त्रका:- महाप्रवाहमहाकुल्यातरणाय काष्ठादिना उपरि यन्त्रप्रवर्तकाः, ॥ १ ॥

कर्मान्तिकाः स्थपतयः पुरुषाः [१] पथिकोविदाः ।
तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ २ ॥

 कर्मान्तिकाः – भृतिजीवकर्मकाः । [२] स्थपतयः – स्थादिप्रवृत्ति-सन्नाहका: । पथिप्रदर्शनकोविदाः – पथिकोविदाः । वर्धकिन:- तक्षकाः । [३] मार्गिणः -- तत्तद्वनमार्गविशेषरक्षानियुक्ताः वृक्षतक्षका:-- वृक्षच्छेदकाः ॥ २ ॥

[४]कूपकाराः सुधाकाराः वंशकर्मकृतस्तथा ।
समर्था ये च [५]. द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ ३ ॥

 सुधाकाराः – वज्रलेपकाः । वंशकर्मकृतः-वंशदलैः कटशूर्पपिटकादिकृत: । चर्मकृत: - पल्ययनादिकृतः । समर्था:- ऋजुमार्गदर्शनसमर्थाः [६] । द्रष्टारः- पूर्वानुभूतमार्गाः ॥ ३ ॥

स तु हर्षात् [७] तमुद्देशं जनौघो विपुलः प्रयान् ।
अशोभत महावेगः समुद्र इत्र पर्वणि ॥ ४ ॥

 स त्विति । एवं मार्गसन्नाहप्रवृत्तः जनो य इत्यर्थः । प्रयान्-गच्छन् । पर्वणि सागरस्येव महावेगः - महावेगवान् ॥


  1. यन्त्रकोविदाः- ङ.
  2. स्थपतयः -- कारवः - गो.
  3. मार्गिण: - मार्गसमीकरणसमर्था:- गो.
  4. सूपाकरा:-ङ.
  5. कर्तार:-ङ
  6. कार्यान्तरेषु समर्था:- गो. अथ वा समर्था: - दक्षा: द्रष्टार:- पर्यवेक्षकाः ।
  7. तमुद्देशं रामानयनोद्देशं प्रति प्रयान् गच्छन्-प्रवर्तमान इति यावत् ।