पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

212 [अयोध्याकाण्ड: भरतगुहसंवादः पञ्चाशीतितमः सर्गः [भरतगुहसंवादः] एवमुक्तस्तु भरतः निषादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञः वाक्य हेत्वर्थ संयुतम् ॥ १ ॥ अथ गुहस्य भरतविसंभः । एवमित्यादि । हेत्वर्थाभ्यां - उपपत्तिप्रयोजनाभ्यां संयुतं तथा ॥ १ ॥ ऊर्जितः खलु ते कामः कृतः, *मम गुरोः सखे ! यो मे त्वमीदृशीं सेनां अभ्यर्चयितुमिच्छसि ॥ २ ॥ ऊर्जितः-स्थिरनिष्पादनेच्छोस्ते कामः – -अस्मत्सत्काराभिलाषः, स तु मम कृत एव खलु । कथमित्यतः – यो म इत्यादि ॥ २ ॥ 4 इत्युक्ता स महातेजाः गुहं वचन मुत्तमम् । अब्रवीत् भरतः श्रीमान् + निषादाधिपतिं पुनः ॥ ३ ॥ कतरेण गमिष्यामि + भरद्वाजाश्रमं पथा । गहनोऽयं भृशं देशः गङ्गानूपे दुरत्ययः ॥ ४ ॥ गहनः - - दुष्प्रवेशः ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । अब्रवीत् प्राञ्जलिर्भूत्वा गुहो गहनगोचरः ॥ ५ ॥ गहनं - वनं गोचरः-देशः यस्य स तथा ॥ ५ ॥

  • स्वस्य रामविषयकभक्ति योतयितुं— मम गुरोः सखेत्युक्तम्- गो. पन्थानं

दर्शयन् (पा.) - गन्तब्यपथि संमुख हस्तं कुर्वन्-ति. पूर्वमेव 57 सर्गारंगे, रामस्य भरद्वाजाश्रमगमन पूर्वकचित्रकूटप्राप्तिपर्यन्तवृत्तान्तस्य सुमन्त्रेणावगतत्व कथनात्, तन्मुखावगत- वृत्तान्त: भरतोऽपि भरद्वाजाश्रममार्ग पृच्छति । 1 संहितम् - ङ. च. 2 मर्थबत्-ड. 3 पन्थानं दर्शयन्-च. गुह-छ.