पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवेश गहनं राम इति चास्मै गुद्दोऽब्रवीत्

  • एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।

अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ ९ ॥ कथं दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ।। १० ।। यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि। . तं पश्य, गुह ! संविष्टं तृणेषु सह सीतया ॥ ११ ॥ + महता तपसा लब्धः विविधैश्व परिश्रमैः । एको दशरथस्यैषः पुत्रः सदृशलक्षणः ॥ १२ ॥ 1 अस्मिन् प्रत्राजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १३ ।। विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः । निर्घोषोपरतं 'नूनं अद्य राजनिवेशनम् ।। १४ ।। कौसल्या चैव राजा च तथैव जननी मम । नाशंसे यदि 'जीवेयुः सर्वे ते शर्वरीमिमाम् ।। १५ ।। जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया ।

  1. दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ १६ ॥

८६ सर्गः] 219 66

  • एतत्स्थाने-' लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयाऽनघ । नात्र मीता वयं सर्वे

धर्ममेवानुपश्यता' इति 51 सर्गे पाठः । + ' यो मन्त्रतपसा लब्ध:' इति 51 सर्गे पाठ: । 'तद्दुःखं यत्तु कौसल्या' इति 51 सर्गे पाठः । एतदर्धानन्तरं- अनुरक्त- जनाकीर्णा सुखा लोकप्रियावहा 1 ●राजव्यसनसंसूटा सा पुरी विनशिष्यति ॥ कथं पुत्रं महात्मानं ज्ये प्रियमपश्यतः । शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ विनष्टे भूपती पश्चात् कौसल्या विनशिष्यति। अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥” इति लोकत्रयं 51 सर्गे अधिकम् । दशरथस्येष्ट:-ङ. 2 तात मन्ये-ङ, 3 जीवन्ति-ङ, ञ,