पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधेः कै|र्यमुदाजह्रुः दशां वीक्ष्य प्रभोरिमाम् गीतवादित्रनिर्घोषैः वराभरणनिःस्वनैः । मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ।। ८ वन्दिभिर्वन्दितः काले बहुभिः सुतमागधैः । (PB * गाथाभिरनुरूपाभिः स्तुतिभिश्च परन्तपः ।। ९ ।। ८८ सर्ग:]] 229 अथ प्रासादाप्रविमानेषु - प्रासादाग्रवर्तिशिरोगृहेषु उच्यमान- विशेषणकेषु उषित्वा कथं भूमौ शेते ? तथा गतिवादित्रा द्युमेनस्तुतिभिः बोध्यमानः कथं भूमौ केवलं शेते ? इत्यन्वयः । वलभी - गृहभेदः, - ' हेमादिविकारजाः-- 'कूटागारं तु वलभी' इति वैजयन्ती । हैमराजतभौमाः, तेषु । प्रासादवराणामपि वर्याः --श्रेष्ठाः ॥ ९ ॥ अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥ १० ॥ इदं - तादृशस्य रामस्य भूशयनं लोके - अत्रत्यजने श्रुतं अश्रद्धेयमेव । तस्यैव विवरणं-न सत्यं मा-मां प्रति प्रतिभाति । अथवा-यतः मे भावः, खलु प्रसिद्धौ, मुह्यते, अतो मे मोहो वेति शेषः । अथवा अयं प्रसङ्गः स्वप्न एव भवितुमर्हतीति मे मतिः । तत्र किल असंभावितमपि संभाव्यते ।। १० ।। +न नूनं दैवतं किश्चित् कालेन बलवत्तरम् । 1 यत्र दाशरथी रामो भूमावेव शयीत सः ॥ ११ ॥

  • कथं भूमौ केवलायां शेते, कथं श्वापदरवैः प्रतिबोध्यते, कथमेकाकी तिष्ठनीति

चोपस्कार्यम्- गो. + कालेन-कालत: बलवत्तरं किञ्चित् - किमपि दैवतं नास्तीति नूनं मन्ये -ति. सर्व कालाधीनमेव, न तु तदपेक्षया सर्वशन्त्रमर्नशक्तत्वादिगुणकं दैव नाम किश्चिदस्ति नूनं - इति भावः । 1 भूमावेवमशेत-च.