पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महासन्तरणम् [अयोध्याकाण्ड: प्रपत्स्यत इति । निवृत्तिविषयकप्रसादादिति शेषः । उपेक्षितुं नाईतीति । भक्तवत्सलत्वादित्याशयः । घरा(२९) मानः (१) सर्गः ॥ ३० ॥ इति श्रीमद्रामायणामृतकतकटीकाय अयोध्याकाण्डे अष्टाशीतितमः सर्गः 234 एकोननवतितमः सर्गः [गङ्गासन्तरणम् ] व्युष्य रात्रि तु * तत्रैव गङ्गाकूले स राघवः । भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। १ ।। ppps अथ भरतस्य च गङ्गातरणपूर्वकं भरद्वाजाश्रमप्राप्तिः । व्युष्येति । व्युषित्वा — उषित्वा । काल्यं – 'प्रत्यूषोऽहर्मुखं काल्यं', तदुचित- कृत्यमित्यर्थः ॥ १ ॥ - 2 शत्रुघ्नोत्तिष्ठ किं शेषे ? निषादाधिपतिं गुहम् । शीघ्रमानय, भद्रं ते, तारयिष्यति वाहिनीम् ॥ २ ॥

  1. जागर्मि नाहं स्वपिमि तमेवार्यं विचिन्तयन् ।

इत्येवमब्रवीत् 'भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः ॥ ३ ॥ कार्यं विचिन्तयन्नहं तथैव जागर्मि । यथा आवां शयनात् पूर्वं तथैव मध्ये क्षणमपि मे निद्रा नास्तीत्यर्थः । नाहं स्वपिमीति । रुधादित्वादिट् । इत्येवमब्रवीदिति । नाहमपि स्वपिमीत्युक्तवा- नित्यर्थः ॥ ३ ॥

तत्रैव- 1--यत्र रामोऽशयिष्ट, तत्रैव-गो. † वाहिनीं- गङ्गाम्, अस्मानित्यर्थ - सिद्धम् - गो. एवं आत्रा प्रचोदितः शत्रुघ्नोऽपि – 'तमेवार्य विचिन्तयन्नहं जागर्मि, नाहं स्वपिमि '—इत्येवमत्र वीदित्यन्वयः । ' तथैवार्य-च. 2 भ्राता-च.