पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९ सर्ग:]] उत्सवश्च महानासीत् तेषां सन्तरतां नदीम् रुक्मादिरूषित चित्रप्रतिमादिशोभासाघनैः शोभमानाः । युक्तवाता:- उचितगतयः, गत्यर्थवातेः भावे निष्ठा । सुसंयता: - दृढसन्धि- बन्धाः ॥ ११ ॥ 237 ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।

  • सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।। १२ ।।

पाण्डुकम्बल:- मृदुकम्बलभेदः । सनन्दिघोषां - उपरिप्रतिष्ठित मङ्गलवादकक्रियमाणमङ्गलवादित्रघोषसहिताम् । गुहो नावमुपाहरदिति । राजाधिरोहणार्थं प्रथमत इति शेषः ॥ १२ ॥ adm 50 तामारुरोह भरतः शत्रुघ्नश्च 'महाबलः । कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।। १३ ।। पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदाराः तथैव शकटापणाः || १४ || तत्पूर्वमिति । समातृकभरतारोहणात् पूर्व नावान्तरेष्वारुरुहुरिति शेषः । अनन्तरं - भरतारोहणानन्तरम् । राजदाराः - अनुचरप्रभुस्त्रियः | शकटानि आपणा:-पण्यानि च तथा, आरोपिता इति शेषः ॥ १३-१४ ॥ - + आवासमादीपयतां तीर्थं चाप्यवगाहताम् । • भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ १५ ॥

- पूर्व- गो. सनन्दिघोषां – हर्षजनक किङ्किण्यादिघोषयुक्ताम्-गो. ती. + तत्पूर्व-तासां

  • आवासं–सेनानिवेशं, आदीपयतां - अग्निना ज्वलयतां, राजभटा हि

निर्गमनकाले श्रीसमागमार्थ आवास दहन्तीति प्रसिद्धिः - गो. प्रातरेव प्रस्थानात् दीपारोहणादीनां नात्र प्रसक्तिः ॥ महायशाः- ङ.