पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९ सर्ग:]pay भरतोऽथ चमूं त्यक्ता भरद्वाजाश्रमं गतः

  • सवैजयन्तास्तु गजाः गजारोहप्रचोदिताः ।

तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ १९ ॥ सवैजयन्ताः – सध्वजाः, “ वैजयन्ते गृहे शत्रुप्राकारध्वज- योरपि " ॥ १९ ॥ 239 नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथा परे । अन्ये | कुम्भघंटैस्तेरुः अन्ये तेरुश्च बाहुभिः ॥ २० ॥ वेणुतृणादिनिर्मिताः – प्लवाः, 'उडुपं तु लवः कोल: ', - @rius | कुम्भाः – कूपोदकोद्धारणोचितपरिमाणाः कलशभेदाः- Grön Lq | घटाः – अनेक कुम्भजलग्राहिणः - । तैर्यथोचितं केचित् तेरुः ॥ २० ॥ - - +सा' पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् । § मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ।। २१ ।। मैत्रे मुहूर्त इति । ● रौद्रः सार्पः तथा मैत्र: ' इत्यनुक्रान्तः उदयमारभ्य तृतीयो मुहूर्तः, 'द्वे तु ना नाड्यौ मुहूर्तोऽस्त्री’ इति वैजयन्ती ॥ २१ ॥

  • सवैजयन्ताः – सपताकाः, सगृहा वा; राजानो हि गजोपरि गृहाणि निर्माय

गच्छन्ति । सध्वजाः - सगमना:, 'ध्वज गती' ; जङ्गमपर्वता इव प्रकाशन्त इत्यर्थ:- गो. ↑ कुम्भघंटैः– कुम्भरूपघटैः सुक्ष्मवदना घटा:- कुम्भाः, ते हि तरणसाधनानि, न परमात्रम् - गो. पुण्या - गङ्गास्नानादिना पूता - गो. § मैत्रे मुहूर्ते- दिवसस्य पश्चद शभागेषु घटिकाद्वयात्मके तृतीये मुहूर्ते, 'द्वे तु नाडयौ मुहूर्तोऽस्त्री' इति वैजयन्ती... पटिकाषट्क एव गङ्गातरणमिति भावः । यदा मैत्रे प्रयागवनं ययावित्यन्वयः । तत्र भातिथ्येन निरवधिक भोगळाभाव मुहूर्त विशेषोक्ति:- गो. 1 पुण्यां ध्वजिनी गङ्गां च.