पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रकूटागमनम् [अयोध्याकाण्ड: - धूमाग्रं– धूमशिखां आलोक्य तेन अमिं तत्साधकत्वेन सामान्यतो राघवौ चानुमाय भरतमूचुः । किमूचुरित्यतः - नामनुष्य इत्यादि । विमतो धूमः- कारणपूर्वक:- कार्यत्वात्, अनेवंत्वे एवंत्वाति- पात इत्यनुमानेन अनुभूतधूमबलसिद्धः योऽयमभिरस्ति विशिष्टः, असौ मनुष्यकारणक एव भवितुमर्हति, अग्निविशेषत्वात् । मनुष्य- रूपकारणाभावे तु नायमनिर्भवितुमर्हति । यश्च तत्कारणं मनुष्य: तौ रामलक्ष्मणावेव व्यक्तं भवितुमर्हतः ॥ २२ ॥ 282 1 अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ ।

  • ONE

6 2 अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः* ॥ २३ ॥ अथ पुरुषान्तरमूलकत्वस्यामे: संभवात्, राजनि च सर्वथा राघवमूलकः' इति मीत्या वक्तुमशक्नुवन्तः पक्षान्तरमुपाददते- अथेत्यादि । अत्र - अनुमिताभिविषये राजपुत्रौ यदि कारणं न भविष्यतः, तदा अन्ये रामोपमास्तपस्विन एवात्र सन्तीति व्यक्तं- 'रामस्त्वत्रैव प्रदेशे' इत्याप्तवाक्यात् सिद्धम् । स चानुमिताग्निमूलतपस्विमुखाद्वा सुबोधः आश्रमविशेषो रामस्य इत्युक्तवन्त इत्यर्थः ॥ २३ ॥ t तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । 3 सैन्यानुवाच ' सर्वांस्तान् अमित्रचलमर्दनः ॥ २४ ॥ साधुसम्मतमिति । न्यायवित्सम्मतं तेषां तद्वचनं श्रुत्वा तत्र प्रदेशे रामावस्थितिं निश्चित्य सर्वांस्तान् सैन्यानुवाच ॥ २४ ॥

  • रामस्यात्राभावेऽपि अत्रत्यतपस्विजनानां विचारणे रामावासस्थानं ज्ञास्येतै-

वेत्याशयः । अत एव 'रामोपमाः' इति । + 'प्रियं हितं च ' इतिवत् 'साधु सम्मतं ' इति प्रत्येकं पदं वा । अथवा तौ-कु. 2 मन्ये-ङ. सर्वान् स्वान्-ड..