पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

292 पश्य । मन्दाकिनी सौन्दर्यम् [अयोध्याकाण्ड:

  • निर्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।

पोहूयमानानपरान् 'पश्येहाचलमध्यमे । ।। १० ।। अम्भसि पोलूयमानान्– पुन: पुन: प्लवमानान् पुष्प सञ्चयान् अचलमध्यमे -- कृशत्वात् चलनाशक्तमध्यमवति ! ॥ १० ॥

  • तांथातिवल्गुवचसः रथाङ्गाह्वयना द्विजाः ।

अधिरोहन्ति, कल्याणि! विकूजन्तः शुभा गिरः ॥ ११ ॥ आह्वयनं--नामधेयम्, आहूयतेऽनेनेति आह्वयनं, आत्वाभाव आह्वयतेरार्षः ॥ ११ ॥ दर्शनं चित्रकूटस्य मन्दाकिन्याश्च, शोभने ! अधिकं पुरवासाच्च # मन्ये च तव दर्शनात् ॥ १२ ॥ तव दर्शनाच अधिक — अधिकसुखावहम् ॥ १२ ॥ विधूतकल्मषैः सिद्धैः तपोदमश मान्वितैः । नित्यविक्षोभितजलां विगाहस्व मया सह ॥ १३ ॥

● वायुना निर्धूनान् विततान् तीरे व्याप्तान् पुष्पसञ्जयान् पश्य जलमध्यगान् पोलूयमानान् भृशं पुनःपुनर्वा प्लवमानान् अपरान् पुष्पसंचयांश्च त्वं पश्य-गो. † रथाङ्गाह्वयना:—चक्राङ्ख्याः द्विजा: – चक्रवाका: तान् पुष्पस तान्- पुष्पसंचयान् अधिरो- हन्ति - शयनमारोहन्तीत्यर्थ:- गो. रथाङ्गं चक्रं, तद्बाचकः शब्दः आह्वयने- नामाने येषामिति विग्रहः । अधिरोहन्ति, पुलिनानीति शेषः-ति. तव दर्शनात् अधिकं मन्ये, भवत्या असन्निषाने तु न तथेति भावः । चकार: एवकारार्थको वा, तव दर्शनादेव अधिकं मन्ये । पश्य त्वं जलमध्यगान्-ड.. पश्य त्वं तनुमध्यमे !- च. पश्येतत्-च. 2 पश्येतान्-ङ.