पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

308 भरतप्रशंसा [अयोध्याकाण्ड: श्रुत्वा प्रत्राजितं मां हि जटावल्कलधारिणम् । जानक्या सहितं वीर! त्वया च, 'पुरुषर्षभ ! ॥ १० ॥ स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः । द्रष्टुमभ्यागतो ह्येषः * भरतो नान्यथाऽऽगतः ॥ ११ ॥ अम्बां च कैकयीं 2 रुष्य परुषं चाप्रियं वदन् । प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥ १२ ॥ कैकयीं रुष्येति । रोषं कृत्वेति यावत् । पितरं प्रसाद्येति । 'त्वया सत्यपरिपालनवशात मयि प्राप्त राज्यं मयैव रामाय दीयते, अतो न ते सत्यभ्रंशदोषः, अतो सत्कर्तृकं दानमनुमन्यस्व' इति प्रसाद्येत्यर्थः ॥ प्राप्तकालं यदेषोऽस्मान् भरतो 'द्रष्टुमिच्छति । अस्मासु मनसाऽप्येषः 'नाप्रियं किञ्चिदाचरेत् ॥ १३ ॥ 25 विप्रियं कृतपूर्व ते भरतेन कदा नु किम् ? + ईदृशं वा भयं तेऽद्य भरतं 'योऽत्र शङ्कसे ॥ १४ ॥ ते – तुभ्यमपि वेत्यर्थः । ईदृशमित्यादि । यस्त्वमद्य भरतं शङ्कस, तस्य ते ईदृशं वा भयं ; कुत इति शेषः ।। १४ ।। 7 § न हि ते निष्ठुरं वाच्यः ' भरतेनाप्रियं कृतम् । अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कुते ।। १५ ।।

  • वाक्यस्य दीर्घत्वात् लोक इव भरत इति पुननिर्देशः । + प्राप्तकालं-

उचितम-ति + ईदृशं भयं वा त्वदुक्तसदृशं गयजनकवाक्यं वा कृतपूर्व किं उक्तपूर्व किम् ? - गो. § ते- त्वया भरतः अप्रियं निरं वचः न वाच्यः - गो. पुरुषोतम च. शेषाद-ङ.. 3 भरतश्चाप्रियं-च. 4 द्रष्टुमर्हति-च. 5 नाहित-च. ' यद्विशङ्कसे-च. 7 भरतो नाप्रियं वचः-ङ, च.