पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
6
[अयोध्याकाण्ड:
सुमन्त्रप्रत्यागमनम्


ततो दशरथस्त्रीणां [१] प्रासादेभ्यस्ततस्ततः ।
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ २० ॥

 प्रासादेभ्य इति । सुमन्त्रस्य राजवेश्मप्रविष्टत्वेन ततोऽवतीर्णानामिति शेषः । मन्दं जल्पितमिति | राजसान्निध्यात् मन्दत्वम् ॥ २० ॥

सह रामेण निर्यातो विना राममिहांगतः ।
सूतः किन्नाम कौसल्यां [२] क्रोशन्तीं प्रतिवक्ष्यति ॥ २१ ॥

 किन्नाम वक्ष्यतीति । अतिघोरत्वात् न किञ्चिदपि वक्तुं शक्यम् ||

 [३] यथा च मन्ये दुर्जीवं एवं न सुकरं ध्रुवम् ।
[४]आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ २२॥

 अथ प्रत्येकं राममातॄणां दुःखप्रलापः यथेत्यादि । यथा-येन प्रकारेण च यस्मात् एवं-स्वानुभवसिद्धप्रकारेण परमदुःखितं मदीयं दुर्जीव कुत्सितप्राणं जीवन्तं मन्ये - अनुभवामि, मन ज्ञाने श्यन् ; तस्मात् तथैव कौसल्याऽपि यत्र- यस्मिन् सकललोकप्रसिद्धानवधिक- कल्याणगुणे पुत्रे तं यथाप्राप्तमभिषेकं आच्छिद्य-परित्यज्य निर्याते सत्यपि जीवतीति यत्, तदपि तद्वदेव ध्रुवं सुकरं न हि ; रामैकशरणायास्तस्याः मत्तः किञ्चिदभ्यधिकं दुःखम् ॥ २२ ॥


  1. प्रासादमारुह्य रुह्य शुश्राव- प्रतिप्रासादं शोकपरिदेवनं शुश्रावेत्यर्थो वा स्यात् ॥
  2. शोचन्ती-ङ
  3. यत्रेति....प्रथमार्थे....यथा-येन प्रकारेण अस्मज्जीवितं दुर्जीवं-दुःखेन जीवनार्हं
    मन्ये, एवमेव कौसल्या पुत्रे निर्याते सति आच्छिद्य प्रसह्य जीवति यत्र-जीवतीति यत्
    तत् न सुकरम्-गो. कौसल्या पुत्रे निर्याते सति आच्छिद्य-प्रसह्य जीवति यत्र- जीवतीति यत्
    एतत् दुर्जीवं-दुष्करजीवनं ध्रुवं-निश्चितम् । एवं एवंविधजीवनं सुकरं न मन्ये ती.
    यथा जीवं—जीवनं दुः-दुःखजनकं मन्ये, एवं ध्रुवं निश्चयेन सुकरं सुकरनाशं नेति
    मन्ये -ति. एतादृशावस्थायां जीवनं यावत् अशक्यमिति अहं जानामि एवं प्रकारमेव
    तत् न सुकरं, ध्रुवम् । किं तदित्यत्र उत्तरार्धम् । आच्छिद्य सम्बन्धं त्यक्त्वा, न तु
    ग्रामान्तरगमनवत् ; प्रव्रज्येति यावत् ॥
  4. प्रसह्य-ङ