पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● 352 कुशलप्रस: E इन्द्रियाणां जयं बुध्वा पाद्गुण्यं दैवमानुषम् । कृत्यं विंशतिवर्ग च तथा प्रकृतिमण्डलम् ।। ६९ ॥ [अयोध्याकाण्ड: इन्द्रियाणां जयमिति । जयोपायमित्यर्थः । इन्द्रियजयोपायो योग एव । षड्गुणा एव षाड्गुण्यम् । तत्तु --'सन्धिर्ना विग्रहो यानमासनं द्वैषमाश्रयः' इति । द्वैषं – शत्रुवर्गाणामुपजापः । दैव- मानुषव्यसने तु– हुताशनो जलं व्याधिः दुर्भिक्षं मरकस्तथा ' इति । मरकः - तन्निमित्तं मार्यादि । आयुक्त केभ्यश्चोरेभ्य परेभ्यो व्यसनं मानुषं त्विदम् ' । अथ कृत्यवर्ग तु–'अलब्धवेतनो राजवल्लभात् । पृथिवीपतिलोभाच्च आयुक्ताः— अधिकारिणः । लुब्धः मानी चाप्यवमानितः । क्रुद्धश्च कोपितोऽकस्मात् तथा भीतश्च भीषितः । भेद्याः शस्त्रैस्तु चत्वारः नृपकृत्यमिदं मतम् ' । अथ विंशतिवर्गः * राज्यस्त्रीस्थानदेशानां ज्ञातीनां च घनस्य च । अपहारो मदो मानः पीडा वैषयिकी तथा ॥ ज्ञानार्थशक्तिधर्माणां 'विघातो दैवमेव च । मित्रार्थयोश्चापमानः तथा बन्धुविनाशनम् । भूतानुग्रह विच्छेदः तथा मण्डलदूषणम् । एकार्थाभिनिवेशित्वं विंशति- विग्रहास्पदम्' । अत्र अपहारशब्दः पूर्वैः षड्भिसह सम्बध्यते । विघातशव्दश्चतुर्मिः । अवमानशब्दस्य मित्रशब्देन अर्थशब्देन च

  • यथाऽह कामन्दकीये–'बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः ।

भीरको भीरुजनको लुब्धो लुब्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेक चित्तमन्त्रश्च देवब्राह्मगनिन्दकः । दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्ष- व्यसनोपेतो बलव्यसन संकुल: । अदेशस्थो बहुरिपुः युक्तोऽकालेन यश्च यः । सत्यधर्म- व्यपेतश्च विंशतिः पुरुषा अमी। एतैः सन्धि न कुर्वीत विगृह्णीयात केवलम्' इति-गो. मीरवः जनाः-मन्त्रिसेनापतियोवाः यस्य सः - भीरजनकः । देवर्चितकः- देवमेव सबै कुर्यादिति मत्वां पुरुषव्यापार मकुर्वाण: aug